SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ..चन्द्राप्तिप्रकाशिकाटीकाप्रा. १३. सू. ३ मण्डलेषु चन्द्राद्धमासचारनिरूपम् ५८७ 'प्राक्तनमयनमुत्तरस्यां दिशि सर्वाभ्यन्तरे मण्डले प्रयोदश सप्तषष्टिभागपर्यन्ते परिसमाप्तं भवति, तदनन्तरं द्वितीयायनप्रवेशे चतुः पञ्चाशता , सप्तपष्टिभागैः सर्वाभ्यन्तरं मण्डलं परिसमाप्य ततो द्वितीये मण्डले चारं चरति । तत्र त्रयोदशभागपर्यन्ते एकम मण्डलं द्वितयस्यायनस्य परिसमाप्त भवति । द्वितीयमर्द्धमण्डलमुरस्यां सर्वाभ्यन्तरात्तृतीयेऽर्द्धमण्डले त्रयोदशभागपर्यन्ते, तृतीयमर्द्धमण्डलं दक्षिणस्यां दिशि चतुर्थेऽर्द्धमण्डले, चतुर्थमर्द्धमण्डलमुत्तस्यां दिशि पञ्चमेऽर्द्धमण्डले, पञ्चममर्द्ध'मण्डलं दक्षिणस्यां दिशि पष्ठेऽर्द्धमण्डले, पष्ठमर्द्धमण्डलमुत्तरस्यां दिशि सप्तमेऽर्द्धमण्डले, 'सप्तममर्द्धमण्डलं दक्षिणस्यां दिशि अष्टमेऽर्द्धमण्डले, अष्टममर्द्धमण्डलमुत्तस्यां दिशि नवमेऽर्द्धमण्डले, नवममर्द्धमण्डलं दिक्षिणस्यां दिशि दशमेऽर्द्धमण्डले, दशममर्द्धमण्डलमुत्तस्यां दिशि एकादशेऽर्द्धमण्डले, "एकादशमर्द्धमण्डलं, दक्षिणस्यां दिशि द्वादशेऽर्द्धमण्डले, द्वादशममर्द्धमण्डलमुत्तरस्यां दिशि त्रयोदशेऽमण्डले, त्रयोदशमर्द्धमण्डलं दक्षिणस्यां दिशि चतुर्दशेऽर्द्धमण्डले, चतुर्दशमद्धमण्डलं. तच्च पञ्चदशस्यार्द्धमण्डलस्य त्रयोदशभागवर्यन्ते परिसमाप्तम् । तदनन्तरं त्रयोदश सप्तषष्टिभागान् अन्यान् पञ्चदशमण्डलसत्कान् चरति । एतावता द्वितीयमयनं परिसमाप्तं भवति । चतुर्दशे च - मण्डले संक्रान्तः सन् चन्द्रः प्रथमक्षणादूचं सर्ववाह्यमण्डलाभिमुखं चारं चरति, ततः परमार्थतः • कतिपयभागातिक्रमे पञ्चदशे एव सर्ववाह्यमण्डले चन्द्रो वेदितव्यः। तदेकस्मिन्नयने पूर्वभागेन - द्वितीयादीनि एकान्तरितानि चतुर्दशपर्यन्तानि सप्तममण्डानि चीर्णानि, पश्चिमभागे च तृतीया दीनि एकान्तरितानि त्रयोदश पर्यन्तानि षड् अर्द्धमण्डलानि, तत्र पूर्वभागे पश्चिमभागे वा यत् प्रतिमण्डलं स्वयं चीर्णमचीर्णं वा मण्डलं चरति तत्प्रदर्शयति-'ता दोच्चायणगए' इत्यादि 'ता' तावत् 'दोच्चायणगए चंदे' द्वितीयायनगतश्चन्द्रः 'पुरस्थिमाए भागाए' पौरस्त्याद् भागात् 'निक्खममाणे निष्क्रामन् 'सत्तचउप्पण्णाई' सप्तचतुष्पञ्चाशत्कानि सप्तपष्टि भागसत्कानि त्रयोदश भागाश्च प्रथमायने चीर्णत्वात् 'जाई' यानि 'चंदे' चन्दः 'परस्स चिन्न' परस्य अत्र तृतीयार्थे षष्टीति परेण चिर्णानि मूले आर्षत्वादेकवचनम् 'पडिचरइ' प्रतिचरति 'सत्ततेरस गाई' सप्तत्रयोदशकानि सप्तपष्टिभाग सत्कानि 'जाइं चंदे' यानि चन्द्रः 'अप्पणा चिण्ण' आत्मना चीर्णानि 'चरइ' चरति । अत्रेयं भावना-मेरोः पूर्वस्यां दिशि यो भागः स पूर्व भागः, यश्चापरस्यां दिशि भागः स पश्चिमभागः कथ्यते । तत्र पूर्वभागे सप्तस्वपि द्वितीयादिषु एकान्तरितेषु चतुर्दशपर्यन्तेषु सप्तपष्टिभागप्रविभक्तेषु अर्द्धमण्डलेषु प्रत्येकं चतुष्पञ्चाशतं चतुष्पञ्चाशतं सप्तषष्टिभागान् चन्द्रः परेण सूर्यादिना चीर्णानि प्रतिचरति, तत्रैव द्वितीययुगे गतश्चन्द्रः सप्त च त्रयोदशत्रयोदश सप्तषष्टिभागान् स्वयं चीर्णान् चरतीति । 'ता दोच्चायणगए' इत्यादि, 'ता' इति, ततः 'दोच्चायणगए चंदे' द्वितीयायनगतश्चन्द्रः 'पच्चत्थिमाए भागाए' पाश्चात्याद् भागात् 'निक्खममाणे' निष्क्रामन् पश्चिमभागान्निष्क्रमण
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy