________________
५६८
.. चन्द्रप्रचप्तिसूत्रे निर्लेपतः शुद्धः । तैश्च त्रयोदश भिरश्लेपात आरभ्य उत्तरापाढा पर्यन्तानि नक्षत्राणि शुद्धानि तत आगतम् चन्द्र उत्तरापाढानक्षत्रं परिणमुपभुज्य अभिजिन्नक्षत्रस्य प्रथमसमये उत्तरायणं करोति । एवं सर्वाण्यपि चन्द्रस्योत्तरायणानि वेदितव्यानि । उक्तञ्च'पण्णरसे उ मुहुत्ते, जोइत्ता उत्तरा आसाढाओ ।
TE: एक्कं च अहोरत्तं, पविसइ अभंतरे चंदो ॥१॥
छायाः-पञ्चदश तु मुहूर्तान् युक्त्वा उत्तराषाढातः । एकं चाहोरात्रं प्रविशति अभ्यन्तरे चन्द्रः ॥ इति ।
एकाहोरात्रस्य त्रिंशन्मुहूर्ताः, तदुपरि पञ्चदशेति जात. पञ्चचत्वारिंशन्मुहूर्ताः, उत्तरापाढा नक्षत्रं पञ्चचत्वारिंशन्मुहूर्त्तात्मक मिति परिपूर्ण युक्तं भवतीति भावः ।
साम्प्रतं चन्द्रस्य दक्षिणा आवृत्तयः प्रदश्यन्ते, तथाहि यदि चतुनिशदधिकेनायनशतेन (१३४) सप्तपष्टिश्चन्द्रस्य पर्याया लभ्यन्ते तत एकेनायनेन किं लभ्यते ? इति त्रैराशिकं क्रियते । राशित्रयस्थापना यथा-१३४।६७।१। मथापि पूर्वोक्तक्रमेण अन्त्येन एककेन मध्यो राशिः सप्तपष्टिरूपो गुण्यते जातस्तावानेव सप्तपष्टिरूप. । तस्यायेन राशिना भागहरणं कर्त्तव्यम् हते च भागे लब्धं पूर्ववदेवार्द्ध मेकपर्यायस्य, तच्चाई पञ्चदशोत्तर नवशतसप्तपष्टिभागरूपं भवति (९१५) अस्मात् अभिजित्सम्बन्धिन एकविंशतिः सप्तपष्टि भागाः शोध्यन्ते, स्थितानि पश्चात् चतुर्नवत्यधिकानि अष्टौ शतानि (८९४) एपां सप्तपष्टया भागे हूते लब्धास्त्रयोदश, अवशिष्टाः स्थिताः पश्चात् त्रयोविंशतिः (२३) सप्तपष्टिभागा एकस्याहोरात्रस्य, ततो मुहूर्त भागकरणार्थ त्रयोविशतिः त्रिंशता गुण्यते, गुणिते, च जायन्ते नवत्यधिकानि पट् शतानि (६९०) एपां सप्तपष्टया भागो हियते लब्धा दश मुहूर्ताः, विशतिश्च सप्तपष्टि भागाः शेषत्वेन स्थिताः (१०२२) तत आगतम्-पुनर्वसु नक्षत्रं परिपूर्णमुपभुज्य चन्द्रः पुप्यस्य दशसु मुहूर्तेषु, एकस्य च मुहर्त्तस्य विंशतौ सप्तपष्टि भागेषु (१०२०) भुक्तेषु तदनन्तरं सर्वाभ्यन्तरमण्डला द्वहिनिष्क्रामति । एवमेव सर्वाण्यपि दक्षिणायनानि विचारणीयानि | उक्तञ्च
"दसय मुहुत्ते सगळे मुहुत्तभागे य वोसई चेव ।
पुस्स विसयमभिगओ, पहिया अभिनिवखमइ चंदो ॥१॥ छाया-दश च मुहर्त्तान् सकलान (परिपूर्णान् ) मुहुर्तभागाश्च विंशति चैव ।
पुप्यविषयान अभिगतः (प्राप्त.) सन् बहिरमिनिाक्रमति चन्द्रः ॥ १ ॥ अर्थस्तु स्पष्ट एव । मू. ६ ॥