SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका प्रा १२ सू.६. सूयचन्द्रयोः हैममन्तीमावृत्ति स्वरूपम् ५६७ च चोत्तीसयं चेव" चन्द्रस्य चावृत्तयः गतं च चतुस्निगकं चैवेतिच्छाया, चन्द्रस्यावृत्तय एकस्मिन् युगे चतुस्त्रिंशदधिकशत (१३४) सख्यका भवन्ति । तत्र यस्मिन्नेव नक्षत्रे वर्तमानः सूर्यो दक्षिणा उत्तरा वा आवृत्तिः करोति तस्मिन्नेव नक्षत्रे वर्तमानश्चन्द्रोऽपि दक्षिणा उत्तराश्चावृत्तीः करोति, ततो या उत्तराभिमुखा आवृत्तयो युगे चन्द्रस्य दृष्टास्ताः सर्वा अपि नियतमभिजिता नक्षत्रेण सह योगे द्रष्टव्याः, याश्च दक्षिणाभिमुखा आवृत्तयस्ताः सर्वाः पुण्यक्षत्रेण सहयोगे द्रष्टव्याः । उक्तञ्च-- "चंदस्स वि नायव्या, आउट्ठीओ जुगम्मि ज़ा दिहा। ' अभिएणं पुस्सेण य, नियमं नक्खत्त सेसे णं" ॥१॥ छायाः-चन्द्रस्यापि ज्ञातव्याः, आवृत्तयो युगे या दृष्टाः । अभिजिता पुष्येण च नियमं नक्षत्रशेषेण ॥१॥ इति ।। अत्र 'नक्खत्तसेसेणं' इति नक्षत्रार्द्धमासेनेति, शेपं सुगमत्वान्न व्याख्यायते । तत्र यदुक्तं पूर्व चन्द्रस्य उत्तराभिमुखाः सर्वा अप्यावृत्तयोऽभिजिन्नक्षत्रयोगे भवन्तीति पूर्व ता उत्तराभिमुखा आवृत्तयोऽत्र भाव्यन्ते-यदि चन्द्रस्य चतुस्त्रिंशदधिकेनायनशतेन सप्तपष्टिनक्षत्र पर्याया लभ्यन्ते तदा प्रथमेऽयने कि लभ्यते ? राशित्रयस्थापना-( १३४१६७।१ ) अत्रापि पूर्वोतैव रीतिः, यथा अन्त्येन राशिना मध्यराशि गुणयित्वा आयेन राशिना भागो हियते, एषा त्रैराशिक गणितरीतिः, ततोऽन्त्यराशिना एकेन गुणितो मध्यराशिः सप्तपष्टि रूपस्तावानेव जातः सप्तपष्ठिः (६७) अस्याः सप्तपप्टे रायेन चतुस्त्रिंशदधिकगतरूपेण राशिना भागो हियते, लब्धं पर्यायस्य एकमर्द्धम् । तस्मिंश्च पर्यायाः पञ्चदशोत्तराणि नवशतानि (९१५) सप्तषष्टि भागानाम् परिपूर्णनक्षत्रपर्यायस्य त्रिंशदधिकाष्टादशशत (१८३०) सप्तपष्ठि भागात्मकत्वात् , तत्र पुष्यनक्षत्रस्य त्रयोविंशतो (२३)सप्तषष्टिभागेपु मुक्तेपु सत्सु चन्द्रो दक्षिणायनं कृतवान् ततः शेषाश्चतु श्चत्वारिंशत् सप्तषष्टि भागाः (४४) स्थितास्ते अनन्तरोदितराशेः पञ्चदशोत्तरे नव शत (९१५) रूपान् शोध्यन्ते स्थितानि शेषाणि एकसप्तत्यधिकानि अष्टौ शतानि (८७१) एषां सप्तषष्टया भागो हरणीयः । इह कानिचिनक्षत्राणि अर्द्ध क्षेत्राणि (पञ्चदश मुहूर्तात्मकानि) तानि अर्ध क्षेत्रात्म कत्वेन सप्तपष्टे रट्टैकृते सार्द्धत्रयस्त्रिंशत्सप्तपष्टिभागप्रमाणानि (३३॥), कानिचित् समक्षेत्राणि ( परिपूर्ण त्रिंशन्मुहूर्तात्मकानि), तानि परिपूर्णक्षेत्रात्मकत्वेन परिपूर्णसप्तषष्टिभागप्रमाणानि (६७) कानिचिच्च दर्धक्षेत्राणि (पञ्चचत्वारिगन्मुहूर्तात्मकानि ) तानि परिपूर्णमेकं (६७) द्वितीयं चाई (३३) मिति सार्दू कक्षेत्रात्मकत्वेन अद्वैभागाधिकशतसंख्यक सप्तपष्टिभागप्रमाणानि (१००) । गात्रं (८७१) त्वधिकृत्य सप्तषष्टया शुद्धयन्तीति सप्तपष्टयाऽत्र भागहरणं कर्तव्यम्, सप्तषष्टया भागे हुते लब्धास्त्रयोदश, शेषं नैव किञ्चिदवतिष्ठते. तत उपरितनो राशि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy