________________
५५०
चन्द्रप्रश्नप्तिसूत्रे रोहिणिया' इति चतुर्थकरणगाथावचनात् नवोत्तराणि त्रीणि मुहूर्तशतानि, एकस्य च मुहर्तस्य चतुर्विशति पिष्टिभागाः, एकस्य च द्वापष्टिभागस्य पट्पष्टिः सप्तपष्टिभागा. ( ३०९२१६६ ) अभिजित आरभ्य रोहिणी पर्यन्ताना नक्षत्राणां गोध्यन्ते, स्थिताः
६२६७ पश्चात् अष्टादश मुहूर्ताः, एकस्य च मुहूर्तस्य द्वाविंशति पिष्टिभागाः, एकस्य च द्वापष्टिभागस्य चतुर्दशसप्तपष्टिभागाः (१८२३१४) । एतावता मृगशिरो न शुद्धयति, तत एतावन्तो मुहर्तादिका मृगशिरो नक्षत्रस्यातिक्रान्तास्ततो मृगशिरो नक्षत्रस्य त्रिंशन्मुहूर्तात्मकत्वात् नरय एकादशसु मुहूर्तेपु, एकस्य च मुहूर्त्तस्य एकोनचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रिपञ्चाशति सप्तपष्टि भागेषु ( ११- २ ) सूत्रोक्तेषु शेपेषु
६२/६७ द्वितीयां श्रावणमासभाविनीमावृत्तिं चन्द्रः प्रवर्त्तयतीति २।।
साम्प्रतं चन्द्रनक्षत्रयोगसमयभाविनं सूर्यनक्षत्रयोगमाह-'तं समयं च ण' इत्यादि 'तं समयं च णं' तस्मिन् समये चन्द्रनक्षत्रयोगकाले च खलु 'सूरिए' सूर्यः 'केणं णक्खत्तणं' केन नक्षत्रेण सहगतः सन् द्वितीयां श्रावणमासभाविनीमावृत्ति 'जोएई' युनक्ति प्रवर्तयतीत्यर्थ । भगवानाह-'ता पूसेणं' इत्यादि 'ता पूसेणं' तावत् पुण्येण पुण्यनक्षत्रेण सहगतो भूत्वा द्वितीया श्राविणीमावृत्ति प्रवर्त्तयति । तत्र-विशेपमाह-'पूसस्स णं' इत्यादि, 'पूसस्स णं' पुण्यस्य खलु 'तं चेव जं पढ़माए' तदेव यत् प्रथमायाम् , अत्र तदेव वक्तव्यं यत्प्रथमायां श्रावणमासभाविन्यामावृत्तौ प्रोक्तम् तथाहि-पुष्यस्य एकोनविंशतिर्मुहर्ताः, एकस्य चमुहूर्तस्य त्रिचत्वारिंशद् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् चूर्णिका भागाः (१९४३३३ ) शेषा अवतिष्ठेयुस्तदा सूर्यो द्वितीयां श्राविणीमावृत्ति प्रवर्तयतीति भावः ।
६२६७१ इह सूर्यस्य दशभिरयनैः पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते, द्वाभ्यामयनाभ्यां चैको नक्षत्रपर्यायो लभ्यते, तत्र सूर्य उत्तरायण कुर्वन् सर्वदैव अभिजिन्नक्षत्रेण सहगतो भूत्वा योगमुपागच्छति दक्षिणायनं कुर्वश्च पुष्येण सहगतः सन् युनक्ति उक्तञ्च
अभिप्राहि नितो, आइच्चो पुस्सजोगमुवगयस्स । सव्या आउट्टीओ, करेइ सो सावणे मासे ॥१॥
छाया-आभ्यन्तगभ्यः (आवृत्तिभ्यः) नयन् बाह्या आवृत्तीः प्राप्नुवन् आदित्यः पुष्ययोगमुपगतः ।