________________
चन्द्राप्तिप्रकाशिकाटीकाप्रा १२ सू. ५
सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५४९ 'चंदे' चन्द्रः 'केणं णक्खतेणं' केन नक्षत्रेण सह योगमुपागतः सन् 'जोयं जोएई' योगं युनक्ति प्रवर्तयतीत्यर्थः । भगवानाह-'संठाणाहिं' सस्थानाभिः, संस्थानशब्देनात्र मृगशिरानक्षत्रं गृह्यते प्रवचने तथा प्रसिद्धत्वात् , बहुवचनं च त्रितारकत्वात् , ततो मृगशिरसा मृगशिरो नक्षत्रेण सह योगमुपागतश्चन्द्रो द्वितीयामावृत्ति प्रवर्त्तयति । मृगशिरसः कियपरिमितेषु मुहर्तादिपु शेपेपु गतेषु वेति प्रश्न प्राह-'संठाणाणं' इत्यादि, सस्थानानां मृगशिरो नक्षत्रस्य 'एक्कारस मुहुत्ता' एकादशमुहूर्ताः, एकस्य च मुहूर्तस्य 'ऊणतालीसं च वावद्विभागा' एकोनचत्वारिंशद् द्वापष्टिभागाः, एकं 'वावद्विभागं च' द्वापष्टिभागं च, 'सत्तहिहा छेत्ता' सप्तपष्टिधा छित्त्वा विभज्य एकस्य द्वापष्टिभागस्य सप्तपष्टिभागान् कृत्वा तद्गताः 'तेवण्णं चुणिया भागा' त्रिपञ्चाशत् चूर्णिका भागा इति । सप्तपष्टिभागाः (११३९५३) यदा 'सेसा' शेषा
५३
६२/६७ -
अवशिष्टा मृगशिरा नक्षत्रस्य भवेयुस्तदा, तथा अस्य त्रिशन्मुहूर्तात्मकत्वात् अष्टादश मुहूर्ताः एकस्य मुहर्तस्य द्वाविंशतिश्च द्वापष्टि भागाः, एकस्य च द्वापष्टिभागस्य चतुर्दश सप्तषष्टि भागाः ( १८२९१४ ) अतिक्रान्ता भवेयुस्तदा चन्द्रो द्वितीयां वार्षिकीमावृत्ति प्रवर्तयतीति । तत्कथमवसीयते ? गणितबलात् , इति गणितं प्रदर्श्यते--
इह या द्वितीया श्रावणमासभाविनो आवृत्तिरस्ति सा पूर्वप्रदर्शितक्रमापेक्षया तृतीया भवति ततस्तत्स्थाने त्रिकं स्थाप्यते, तद्रूपोनं क्रियते, जातं द्विकं, तेन प्राक्तनो ध्रुवराशि पत्रिंशत्सख्यकद्वापष्टिभाग-पट् सख्यकसप्तपष्टिभागयुक्तः त्रिसप्तत्यधिक पञ्चशतरूपः ( ५७३३६६ ) गुण्यते, जातानि-एकादश शतानि षट् चत्वारिंशदधिकानि मुहूर्तानाम् , एकस्य मुहूर्तस्य च द्वासप्ततिषिष्टि भागाः, एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागा ( ११४६५२१२ ) तत एतेभ्य एकोनविशत्यधिकाष्टशतसख्यका मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशति पिष्टि भागाः एकस्य च द्वापष्टि भागस्य षट्षष्टिः सप्तषष्टिभागाः, । १९२४६६ ) परिपूर्णनक्षत्रपर्यायस्य शोध्यन्ते, स्थितानि पश्चात्-सप्तविंशत्यधिकानि त्रीणि शतानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य सप्तचत्वारिंशद् द्वापष्टिभागाः एकस्य च द्वाषष्टि भागस्य त्रयोदश सप्तषष्टिभागाः ( ३२७७१३.) तत एतेभ्यः 'तिसुचेव नवुत्तरेसु
६।६७
६२६७