________________
चन्द्रप्रक्षप्तिप्रकाटीका प्रा.१२ सू.४
ऋतु वक्तव्यताप्रतिपादनम् ५२३ तत्र 'सोज्झा अभिइम्मि वायाला' इति वचनात् अभिजितो द्वाचत्वारिंशत् शोध्यते, शोधिते च स्थिते पश्चात् त्रिषटयधिके द्वेशते (२६३) ततश्चतुस्त्रिंशदधिकेन शतेन (१३४) श्रवणः शोध्यते, स्थितं शेषमेकोन त्रिंशदधिकं शतम् (१२९) एभ्यश्च धनिष्ठा न शुद्धयति ततः 'छेओ सयं च चोत्तीसं' इति वचनात् चतुस्त्रिंशदधिकशत (१३४) भागना मेकोनत्रिंशं शतं धनिष्ठासत्कमवगाह्य चन्द्रः प्रथमं सूर्यत्तुं परिसमापयति, चतुस्त्रिंशदधिकशतभागेषु धनिष्ठा नक्षत्रस्य एकोनत्रिंशदधिकशतभागातिक्रमणानन्तरं चन्द्रःप्रथमसूर्य परिसमापको भवतीति भावः । यदि द्वितीय सूर्यर्तुजिज्ञासा भवेत्तदा स एव पञ्चोत्तर शतत्रयप्रमाणो ध्रुवराशिस्त्रिभिर्गुण्यते मयं भावः'एगाइविउत्तरगुणो इति वचनात् एकआरभ्य तत उर्व द्वयुत्तरवृद्धया, इति प्रथमसूर्यतु प्रकररणे एकेन ध्रुवराशिःर्गुणितः अत्र द्वितीयसूर्यर्तुजिज्ञासायामुत्तरोत्तरद्विकवृद्धया ध्रुवराशिस्त्रिभिर्गुण्यते इति । त्रिभिर्गुणितो ध्रुवराशिजायते पञ्चदशोत्तरनवशतसंख्यकः (९१५) तत्राभिनितो द्वाचत्वारिंशच्छुद्धया स्थितानि शेषाणि-अष्टौ शतानि त्रिसप्तत्यधिकानि (८७३) ततश्चतुस्त्रिशेन शतेन श्रवणे शोधिते स्थितानि शेषाणि एकोनचत्वारिंशदधिकानि सप्तशतानि (७३९), अत्र धनिष्ठा शुद्धयते इति तस्माद् राशेधनिष्ठानक्षत्रस्य चतुस्त्रिशधिकशतसंख्यका भागाः शोध्यन्ते स्थितानि-शेषाणि पश्चोत्तराणि षट् शतानि (६०५) एतस्माद्राशेरपि सप्तषष्टिः शत भिषनः शोध्यते, स्थितानि अष्टात्रिंशदधिकानि पञ्च शतानि (५३८), एभ्योऽपि चतुस्त्रिशेदधिकं शतं (१३४) पूर्वभाद्रपदायाः शोध्यते, स्थितानि चतुरधिकानि चत्वारिशतानि (४०४), एभ्योऽपि एकोत्तरशतद्वयेन (२०१) उत्तरभाद्रपदा शोध्यते, स्थिते शेषे त्र्युत्तरे है. शते (२०३), एतस्मादाशेश्चतुनिशदधिकं शतं (१३४) रेवत्याः शोध्यते, स्थिता पश्चादेकोनसप्ततिः (६९) । तत आगतम्- अश्विनीनक्षत्रस्येकोनसप्तति भागान् चतुस्त्रिशदधिकशत भागानामवगाह्य चन्द्रो द्वितीयं सूर्या परिसमापयतीति एवं : शेषेष्वपि ऋतुषु भावना कार्येति । अथान्तिमत्रिंशत्तमसूर्यत जिज्ञासायां स एव ध्रुवराशिः (३०५) एकोनपष्टया गुण्यते, जातानि 'सप्तदश सहस्राणि, पञ्चनवत्यधिकानि नवशतानि (१७९९५), तत्र षष्टयधिकैः षट् त्रिशच्छतैः (३६६०) एको नक्षत्रपर्यायः शुद्धयति, ततः षष्टयधिकानि पत्रिंशच्छतानि चतुर्भिर्गुणयित्वा तत शोध्यन्ते, एष नक्षत्रपर्यायश्चतुर्भिगुणने जायन्ते-चतुर्दश सहस्राणि चत्वारिशदधिकानि षट शलानि च (१४६४०) तत एकोनषष्टया गुणिताया धुवराशि संख्यायाः (१७९९५) चतुभिंगुणितोनक्षत्रपर्यायः (१४४६०४) शोध्यते स्थितानि पश्चात् पञ्च पञ्चाशदधिकानि त्रयस्त्रिंशच्छतानि (३३५५) । एभ्यः पञ्चविंशत्यधिकैात्रिंशच्छतैः (३२२५) अभिजिदादीनि मूलपर्यन्तानि नक्षत्राणि शोध्यन्ते, स्थितं पश्चात् त्रिंशदधिकमेकं शतम् (१३०) तेन च पूर्वाषाढा न शुद्धयति, तत आगतम्-त्रिंशदधिक शतं चतुस्त्रिंशदधिकशतभागानां पूर्वाषाढासत्कमवगाह्य चन्द्रस्त्रिंशत्तमं सूर्यतुं परिसमापयतीति ।