________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.१२सू. ४
ऋतुवक्तव्यता प्रतिपादनम् ५१७
जं लद्धं तस्स पुणो, छहि हिय सेस उऊ होइ ॥२॥ सेसाणं अंसाणं, बहिउ भागेहि तेसिं जं लद्धं । ते दिवसा नायबा, होति पवत्तरस अयणस्स ॥३॥" छाया-सूर्यत्तौरानयने पर्व पञ्चदश संगुणं नियमात् । तत्र संक्षिप्तं सत द्वाषष्टि भागपरिहीनम् ॥१॥ द्विगुणम् एकपष्टियुतं, द्वाविंशशतेन भाजिते नियमात् । यल्लब्धं तस्य पुनः पइभिट्टते शेष ऋतुर्भवति ॥२॥ शेषाणा मंशानां द्वाभ्यां तु भागाभ्यां तेषां यल्लब्धम् । ते दिवसा ज्ञातव्या., भवन्ति प्रवृत्तस्यायनस्य ॥३॥ इति ।
आसां व्याख्या क्रियते---'सूरउउस्सा.' इत्यादि, 'सूरउउस्साणयणे' सूर्यत्तोंः सूर्यसम्बन्धिन ऋतोरानयने 'पव्वं सर्व-पर्व संख्यान 'नियमा' नियमात् 'पण्णग्सं गुणं' पञ्चदशसंगुणं पञ्चदशभिर्गुणितं कर्त्तव्यम् पर्वाणां पञ्चदशतिथ्यात्मकत्वात् । अत्रेय भावना----यद्यपि ऋतव आपाहादि प्रभवास्तथापि युगं श्रावण-कृष्णपक्ष प्रतिपदात आरभ्य प्रवर्त्तते ततो युगादितः प्रवृत्तानि यानि पर्वाणि भवन्ति तेषां संख्याऽत्र गृह्यते, सा सख्याऽत्र पञ्चदशभिर्गुण्यते इति । तां संख्यां गुणयित्वा च पर्वाणामुपरि विवक्षितं दिनममिव्याप्य या तिथयस्ताः 'तहि संखित्तं तत्रपञ्चदशभिर्गुणिते राशौ संक्षिप्यन्ते इत्यर्थ. तदेवाह-संखित्तं संतं' सक्षिप्तं सत् 'वावहिभागपरिहीणं' द्वापष्टिभागपरिहीनं कर्तव्यम् । अयं भावः-प्रत्यहोरात्रमेकैकेन द्वापण्टिभागेन पम्हिीयमाणे चे निष्पन्ना अवमरात्रा न्यूनदिवस रात्रिरूपास्तेऽप्युपचाराद् द्वापष्टिभागाः कथ्यन्ते, तैः परिहीनं पर्वसख्यानं कर्त्तव्यमिति ॥१॥ 'दुगुणे' इत्यादि, 'दुगुणेगहीए जुयं' द्विगुणमेकपष्ट्यायुत पूर्वोक्तं द्वापष्टिभागपरिहीनं संख्यानं द्विगुणित कृत्वा एकपष्टया युक्तं क्रियते ततः 'वावीससएण भाइए' द्वाविंशशतेन द्वाविंशत्यधिकेन. शतेन भाजिते सति 'नियमा' नियमात् 'जं लद्ध' यल्लब्ध 'तस्स पुणी छहि हिय' तस्य पुनः षड्भिर्टते पभिर्भागे हृते 'सेस' यच्छेषं सः अनन्तरातीतः 'उऊहोइ' ऋतुर्भवति ॥२॥ 'सेसाणं' इत्यादि 'सेसाणं अंसाणं' येऽपिचागाः शेषा उद्घारितास्तेषां 'हिउभागेहिं' द्वाभ्यां भागो हृते 'तेसिं जलद्ध, तेषां तत्सम्बन्धिनां यल्लब्धं, 'ते दिवसा नायव्वा होति' त दिवसा ज्ञातव्या भवन्ति, कस्येत्याह'पवत्तस्स अयणस्स' प्रवृत्तस्य प्रवर्त्तमानस्य अयनस्य ऋतोर्ज्ञातव्या इति ।।३।।
एष करणगाथा त्रयस्याक्षरार्थः । सम्प्रत्यासां भावना क्रियते-तस्मिन् युगे प्रथमे दीपोत्सवे केनापि पृष्टम्-अघतोऽनन्तरं गतकाले कः सूर्यतुरतीतः १ को वा साम्प्रतं वर्तते ? इति प्रश्न यत् क्रियते तदाह-तत्र युगादितः सप्त पर्वाणि व्यतीतानीति सप्त स्थाप्यन्ते, तानि 'पण्णरसगुणं'