________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू३ संवत्सराणां समादि समपर्यवसानम् ५१३ सप्तपञ्चाशद् मासाः पदपञ्चाशदधिकशतेन गुणिताः ये अष्ट सहस्राणि अष्टशतानि द्विनवत्यधिकानि (८८९२) मासानां जातास्तेपु प्रक्षिप्यन्ते जायन्ते अष्टसहस्त्राणि नव शतानि अष्टाविंशत्यधिकानि (८९२८) द्वादशभिर्भागे हुते जायन्ते, सूत्रोक्ताः 'सत्तसया चोयाला' चतुश्चत्वारिंशदधिकानि सप्तशतानि (७४४) अभिवर्द्धितसंवत्सरा षट्पञ्चाशदधिकशतसंख्यकेपु (१५६) युगेषु इति ।
अथवाऽन्यत्र-एक युगवर्तिनोऽभिवर्द्धितमासाः सप्तपञ्चाशत् एकस्य च मासस्य त्रयस्त्रयोदशभागाः (५७ । एतावत्प्रमाणं लभ्यते, तथाहि-“सत्तावण मासा मासस्स य तिन्नि तेरसभागा" इति । तत एतदनुसारेणापि गणितं प्रदर्श्यते, तथाहि-सप्तपञ्चाशन्मासाः, त्रयस्त्रयोदशभागाः (५७)। एते पट्पञ्चाशदधिकशतेन गुण्यन्ते, तत्र पूर्व सप्तपञ्चाशत् पट्पञ्चाशदधिकशतेन गुण्यन्ते, जातानि-अष्ट सहस्राणि अष्टशतानि विनवत्यधिकानि (८८९२) ततस्त्रयस्त्रयोदशभागाः पट्पञ्चाशदधिकशतेन गुण्यन्ते, जातानि चत्वारि शतानि अष्टपष्टयधिकानि (४६८), एषां मासानयनार्थ त्रयोदशभिर्भागो हियते, लभ्यन्ते पत्रिंशन्मासाः (३६), एते पूर्वोक्तमासराशौ (८८९२) प्रक्षिप्यन्ते जातानि-अष्टसहस्राणि नवशतानि अष्टाविंशत्यधिकानि (८९२८)। एपा द्वादशभिर्भागो हियते लभ्यन्ते यथोकाश्चतुश्चत्वारिंशदधिकसप्तसंख्यकाः (७४४) संवत्सराः षट्पञ्चाशदधिकशत (१५६) युगानाम् ।
अथादित्यसंवत्सराः प्रदान्ते-एकस्य युगस्यादित्यमासाः षष्टिः (६०) एते षट्पञ्चाशदधिकशतेन गुण्यन्ते-जातानि नव सहस्राणि त्रीणि शतानि षष्टयधिकानि (९३६०) एषां द्वादशभिर्भागे हते लभ्यन्ते-सूत्रोक्ताः 'सत्तसया असीया' अशीत्यधिकानि सप्तशतानि (७८०) षट्पञ्चाशच्छतयुगेषु मादित्यसवत्सरा इति । ऋतुसंवत्सराः प्रदर्श्यन्ते-एकयुगान्तर्वर्तिन ऋतुमासाः एकषष्टिः (६१) एते पटूपञ्चाशदधिकेन शतेन गुण्यन्ते, जातानि नवसहस्रणि पञ्चशतानि पोडशाधिकानि (९५१६) । एषां द्वादशभिर्भागे हृते लभ्यन्ते सूत्रोकाः, 'सत्तसया तेणउया' सप्तशतानि त्रिनवत्यधिकानि (७९३) ऋतुसवत्सरा इति । चन्द्रसंवत्सरानाह-एकयुगान्तर्वर्तिनश्चन्द्रमासाः द्वाषष्टिः (६२), एते षट्पञ्चाशदधिकशतेन गुण्यन्ते, जातानि-नवसहस्राणि षट्शतानि द्वासप्तत्यधिकानि (९६७२), एषां द्वादशभिर्भागे हते लभ्यन्ते सूत्रोक्ताः 'अट्ठसया छलुत्तरा' अष्टशतानि षड्डत्तराणि (८०६) चन्द्रसंवत्सरा इति । नक्षत्रसंवत्सरानाह-एकस्मिन् युगे नक्षत्रमासाः सप्तष्टिः (६७), एते षट्पञ्चाशदधिकशतेन गुण्यन्ते, जातानि दशसहस्राणि, चत्वारि शतानि