________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू ३ संवत्सराणां समादिसमपर्यवसानम् ५११ इत्यर्थः 'छपण्णसयखुत्तकडा' पट्पश्चाशच्छतकृत्त्वः कृता पट्पञ्चाशच्छतगुणिता 'दुवालसभइया' द्वादशभिर्हतभागा, पट्पञ्चाशदधिकशतेन गुणितानामभिवद्धितादिमासानां द्वादशभिर्भागे हते या या संख्या लभ्यते सा सा संख्या अभिवद्धितादिसंवत्सराणां प्रत्येकस्य संख्या भवति । तामेव संख्यां प्रदर्शयति-'सत्तसया चोयाला' सप्तशतानि चतुश्चत्वारिंशदधिकानि संवत्सराणाम्, 'एएणं' एते (७४४) खल 'अभिवढियसंवच्छरा' अभिवतिसंवत्सरा भवन्तीति । आदित्य सवत्सरानाह-'सत्तसया असीया' सप्तशतानि अशीत्यधिकानि (७८०) 'एएणं' एते खल 'आदच्चसंवच्छरा' आदित्य संवत्सरा भवन्ति । ऋतुसंवत्सरानाह--'सत्तसया तेणउया' सप्तशतानि त्रिनवत्यधिकानि (७९३), 'एए णं' एते खलु 'उउसंवच्छरा' ऋतुसंवत्सरा भवन्ति । चन्द्रसंवत्सगनाह-'अट्ठसया छलुत्तरा' अष्टशनानि पडत्तराणि (८०६) 'एएणं' एते खलु 'चंदसवच्छरा' चन्द्रसंवत्सरा भवन्ति । नक्षत्रसंवत्सरानाह-'एगसत्तरीअट्ठसया' एकसप्तत्यधिकानि अष्टशतानि - (८७२) 'एए णं' एते खल 'नक्खत्तसंवच्छरा' नक्षत्रसंवत्सरा भवन्ति । एते पञ्चापि संवत्सराः स्वस्व प्रमाणमाश्रित्य यदा परिपूर्णा भवेयुः, 'तया णं तदा खलु 'एए' एते 'अभिवढिय-आइच्च-उउचंद-णक्खत्तसंवच्छरा' अभिवर्द्धितादित्य ऋतुचन्द्रनक्षत्रसवत्सराः 'समादिया-समपज्जवसाणा' समादिकाः समपर्यवसानाः एक कालिकादिपर्यवसानवन्त? 'आहिया' आख्याताः एते कालसाम्यमाश्रित्य षट्पञ्चाशदधिकशत (१५६) संख्यकेषु युगेषु परिपूर्णेषु सत्सु परिपूर्णा भवन्तोति विवेकः । 'तिवएज्जा' इति वदेत् स्वशिष्येभ्य इति एपां पञ्चानां सवत्सराणां मध्यात् एकैकयुगसम्बन्धिनो मासान् सूत्रोक्तविधिना पट्पञ्चाशदधिकशतेन गुणयित्वा द्वादशभिर्भागे हते पट्टपञ्चाशदधिकशतसंख्यकयुगसम्बन्धिन प्रत्येकस्य सवत्सरा सायान्ति । षट्पञ्चाशदधिकशतसंख्यकै युगैरव पूर्वोक्ताभिवड़ितादिसंवत्सराणां समादि समपर्यवसानसद्भावादिति । अथैषां संवत्सर संख्या गणितेन प्रदर्श्यते तद्विधिर्यथा
एकयुगवर्त्तिनोऽभिवर्द्धितमासाः सूत्रोक्ताः सप्तपञ्चाशत्-अहोरात्राः, एकादश मुहूर्ताः, त्रयोविंशतिश्च द्वापष्टि भागाः (५७-७-११-२३) । एते षट्पञ्चाशदधिकशतेन (१५६) गुणनोया भवन्ति, तत्र-प्रथम सप्तपञ्चाशत् पट्पञ्चाशदधिकेन शतेन गुन्यन्ते, जायन्ते-अष्टसहस्राणिअष्टशतानि विनवत्यधिकानि-८८९२ एते मासा जाताः । ततः सप्तमहोरात्राः षट्पञ्चाशदधिक शतेन गुण्यन्ते, जातानि द्विनवत्यधिकानि दश शतानि-१०९२, एतेऽहोरात्रा जाताः । तत एकादश मुहूर्ताः पट्पञ्चाशदधिकशतेन गुण्यन्ते जातानि-पोडशाधिकानि सप्तदश-शतानि-१७१६ एते, मुहूर्ता जाताः । ततः त्रयोविंशतिः द्वापष्टिभागाः षट्पश्चाशदधिक: शतेन गुण्यन्ते, जातानि