________________
चन्द्रशप्तिप्रकाशिकाटीका प्रा.१२ सू. ३ संवत्सराणाम् समादिसमपर्यवसानम् ५०९ चन्द्र संवत्सरस्य दिनानि चतुप्पञ्चाशदधिकानि त्रिशतानि एकस्य दिनस्य द्वादश द्वाषष्टिभागा (३५४।३ ) एपामेकत्रिंशता गुणने जायन्ते दशसहस्राणि अशीत्यधिकानि नवशतानि दिना
६२
नाम् (१०९८०) एवं जाता आदित्यचन्द्रसंवत्सरयोदिवसानां समानता । इयत्सु दिवसेषु व्यतिक्रान्तेपु द्विप्रकाराणां संवत्सराणां पर्यवसानं भवतीति ते समपर्यवसिता भवन्तीति । अथादित्यनातु चन्द्रनक्षत्रेति संवत्सरचतुष्टयविपये पृच्छति-'ता कयाणं एए आइच्च' इत्यादि 'ता' तावत् 'कयाण' कटा खलु 'एए' एते वक्ष्यमाणा• 'आइच्च-उउ-चंद-णक्खत्तसंवच्छरा' आदित्य ऋतुचन्द्रनक्षत्रसवत्सराः चत्वारोऽपि 'समादिया' समादिकाः समानादिमन्तः 'समपज्जवसिया' समपर्यवसिताः समानपर्यवसानवन्त 'आहिया' आख्याताः ? 'तिवएज्जा' इति वदेत् वदतु हे भगवन् ! । भगवानाह-'ता सहि' इत्यादि, 'ता' तावत् 'सही' पष्टिः (६०) 'एए' एते एकयुगान्तवेर्तिन 'आउच्चमासा' आदित्यमासाः । 'एगट्टि' एकषष्टिः (६१) 'एए एते एकयुगान्तवर्तिनः 'उउमासा' ऋतुमासाः । 'वावट्ठी' द्वापष्टिः (६२) एते एकयुगान्तर्वर्तिनः 'चंदमासा' चन्द्रमासाः 'सत्तहि सप्तपष्टिः (६७) ६०-पष्टिरादित्यमामा.। ६१-एकपष्टि ऋतुमासाः। ६२-द्वापष्टिश्चन्द्रमासाः। ६७-सप्तपप्टिनक्षत्रमासाः। 'एए' एते एकयुगान्तर्वतिन 'नक्खत्तमासा' नक्षत्रमासाः 'एसणं' एपा प्रत्येकं खल अद्धाकालरूपा 'दुवालसखुत्तकडा' द्वादशकृत्वः कृता अत्र द्वादशभिर्युग. समानपर्यवसानसद्भावात् द्वादशभिर्गणितेत्यर्थः, ततश्च 'दुवालसभइया' द्वादशभक्ता द्वादशभागहता 'सट्ठी' षष्टिः पष्टिसख्यकाः 'एए' एते द्वादशयुगसम्बन्धिनः 'आइच्च संवच्छरा' आदित्यसंवत्सराः । एवं 'एगाट' एकषष्टिः 'एए' एते 'उउसंवच्छरा' ऋतुसंवत्सराः । एवं 'वावट्ठी' द्वापष्टिः 'एए' एते 'चंदसंवच्छरा' चन्द्रसंवच्छरा. । 'सत्तट्ठी' सप्तपष्टिः 'एए' एते 'नक्खत्तसंवच्छरा' नक्षत्रसंवत्सराः एपा सवत्सरसख्या प्रत्येकं द्वादशयुगातिक्रमे भवतीत्यर्थः । अयं भावः-एते चत्वारोऽपि सवत्सराः विवक्षित युगस्यादौ समादिकाः समारब्धप्रारम्भाः सन्तस्तत आरभ्य द्वादशयुगपर्यन्ते समपर्यवासाना भवन्ति, द्वादशयुगेभ्योऽर्वाक् एषां चतुर्णा सवत्सराणां मध्यादन्यतमस्य कतिपयमासानामधिक तयाऽवश्यम्भावेन सर्वेषां युगपत् समपर्यवसानत्वासंभवात् । अथैषां प्रत्येक दिनसमानता गणितेन प्रदर्श्यते -पूर्व चतुर्णा सवत्सराणामेक युगान्तर्वतिमाससंख्याप्रदर्शिता एपा प्रत्येकमाससंख्या द्वादशभिर्गुणिता पुनश्च द्वादभिर्विभक्ता क्रियते तत. संवत्सरा आयान्ति, तत्र द्वादशसु युगेपु पतिरादित्य संवत्सराः (६०), एकपष्टि ऋतुसंवत्सराः (६१), द्वापष्टिश्चन्द्रसंवत्सगः (६२) सप्तपष्टिश्चनक्षत्रसवत्सराः (६७) लभ्यन्ते । तत्रैकस्मिन् युगे आदित्यमासाः षष्टिः (६०), एपा द्वादशभिर्गुणने विंशत्यधिकानि सप्तशतानि (७२०), एषां द्वादशभिर्भागे हत्ते द्वादशसु युगेपु पण्टिरादित्यसवत्सराः (६०) लब्धाः । तत एकस्यादित्यसवत्सरस्य षट्पष्टयधिकानि त्रीणि