________________
चन्द्रातिप्रकाशिकाटीका प्रा.१२ सू. १ नक्षत्रादिसंवत्सरसंख्यादिकम् ४९७ रस्स' आदित्य संवत्सरस्य 'आइच्चे मासे' आदित्यः आदित्यसम्बन्धी मासः 'तीसइ तीसइ मुहुत्तेणं' त्रिंशत् त्रिंशन्मुहूर्तकेन 'अहोरत्तेणे' अहोरात्रेण 'गणिज्जमाणे' गण्यमानः 'केवइए' कियत्कः कियत्परिमितः 'राइंदियग्गेणं' रात्रिन्दिवाण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथितः 'तिवएन्ज' इति वदेत् वदतु हे भगवान्-'ता तीसं' इत्यादि, 'ता' तावत् 'तीसं' त्रिंशद् 'राईदियाई रात्रिन्दिवानि 'राइदियस्स' एकस्य रात्रिन्दिवस्य 'अवड्ढभागो य' अपार्धभागश्च, अपगतः अर्द्धः अपार्द्धः, सचासौ भागश्च अपार्द्धभागः अर्द्धभागः पञ्चदश- मुहूर्तात्मकः साईत्रिंश द्रात्रिन्दिवात्मकः आदित्यो मासो भवतीति सार्द्धत्रिंशदात्रिद्भिवानि 'राइंदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथितः 'ति वएज्जा' इति वदतु । तथाहि-सूर्यमासा युगे पष्टिः. ततो युगसम्बन्धिनां त्रिंगदधिकाष्टादश शतसंख्यानामहोरात्राणां पष्टयभागे हते लभ्यन्ते सास्त्रिंशदहोरात्रा इति । अथास्य मुहूर्तान् पृच्छति'ता से णं' इत्यादि 'ता' तावत् 'से णं' सः आदित्यो मासः खलु 'केवइए' कियत्कः कियत्परिमितः 'मुहत्तग्गेणं' मुहूर्ताप्रेण मुहूर्तपरिमाणेन 'आहिए' आख्यातः कथितः 'तिवएज्जा' इति वदेत् वदतु हे भगवन् ! भगवानाह-'ता णव' इत्यादि 'ता' तावत् 'णव पण्णरसाई मुहुत्तसयाई' नव पञ्चदशानि पञ्चदशाधिकानि नव मुहूर्तशतानि (९१५) 'मुहुत्ताग्गेणं' मुहूर्तपरिमाणेन 'आहिए' आख्यातः कथितः 'तिवएज्जा' इति वदेत् स्वशिष्येभ्यः । तथाहि-सूर्यमासे परिमाणं साईत्रिंशदहोरात्रकम्, तच्चाहोरात्रस्य त्रिशन्मुहूर्तात्म कत्वात् त्रिंशता गुण्यते, जायन्ते पञ्चदशाधिकानि नव मुहूर्तशतानीति । अथादित्यसंवत्सरस्य सर्वाद्धां प्रदर्शयति-'ता एस गं' इत्यादि. 'ता' तावत् 'एस गं' एषा सर्वरात्रिन्दिवरूपा सर्वमुहूर्तरूपा च 'अद्धा' अद्धा-कालः 'दुवालसखुत्तकडा' द्वादशकृत्वः द्वादशवारैर्गुणिता 'आईच्चे संवच्छरे' एक आदित्यः संवत्सरो जायते । अथास्य रात्रिन्दिवानि पृच्छति-'ता सेणं' इत्यादि. 'ता' तावत् 'से गं' स खलु आदित्यः संवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'राइंदियग्गेणं' रात्रिन्दिवाण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः 'ति वएज्जा' इति वदेत् वदतु हे भगवान् ! । भगवानाह-'ता तिन्नि' इत्यादि, 'ता' तावत् 'तिन्नि छावदाई राइंदियसयाई' त्रीणि षट्षष्टानि षषष्टयधिकानि रात्रिन्दिवशतानि (३६६ ) 'राइंदिय ग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए आख्यातः कथितः 'ति वएज्जा' इति वदेत् स्वशिष्येभ्यः । तथाहि-आदित्यो मासः साईत्रिंशदानिन्दिवात्मकः- ते च मासा एकस्मिन् संवत्सरे द्वादशेति साईत्रिंशद्वादशभिर्गुण्यन्ते जाता यथोक्ता संख्या एकस्यादित्यसंवत्सरस्य रात्रिन्दिवानामिति । अथास्य मुहूर्तसंख्या पृच्छति 'ता से गं' इत्यादि. 'ता' तावत् 'सेणं'