SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका प्रा.११ सू. १ संवत्सराणामादिस्वरूपनिरूपणम् ४८७ • उत्तराणं आसाढाण: उत्तराणामाषाढानां उत्तराषाढानक्षत्रस्य 'चरमसमए' चरमसमये । अन्तिम . भागे चन्द्र उत्तराषाढानक्षत्रेण सह योगं युनक्ति । अस्य गणितप्रकारः-प्रदर्श्यते पञ्चमाभिवर्द्धित • संवत्सरंपर्यवसान'द्वापष्टितमपौर्णमासीभिर्भवतीति स एव ध्रुवराशिः (६६।५।१) द्वापष्टया गुण्यते, जातानि द्विनवत्यधिकानि चत्वारिंशन्मुहूर्तशतानि, एकस्य च मुहूर्तस्य दशोत्तराणि त्रीणि शतानि द्वापष्टिभागाः; एकस्य च द्वाषष्टिभागस्य द्वापष्टिः सप्तषष्टिभागाः (४०९२।३१०९६२, तत एतस्मादाशेः 'अट्ठसय उगुणवीसा सोहणगं उत्तराणसाढाणं । चउवीसं खलु भागा, छावट्टी 'चुणियाओ य ॥१॥" इति वचनात् एकोनविंशत्यधिकानि अष्टमुहूर्त्तशतानि एकस्य मुहूर्त्तस्य चतुर्विशति द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य षट्षष्टिश्चूर्णिका भागाः (८१९।२४।६६) 'इत्येतत्परिमितं सकलनक्षत्रपर्यायपरिमाणमत्र पञ्चभिर्गुण्यते, जातानि पञ्चनवत्यधिकानि चत्वारिंश'च्छतानि, विंशत्युत्तरं शतं द्वापष्टिभागाः, त्रिंशदुत्तराणि त्रीणि शतानि सप्तषष्टिभागाः (४९५।१२०॥ ३३०) एप राशिः शोध्यते, द्वयोः राश्योर्मुहूर्त्तादिकं कृत्वा पूर्वोक्तप्रकारेण शोधने जायते परिपूर्णो राशिः, न किञ्चित्तत्पश्चादवतिष्ठते तत आयाति–उत्तराषाढानक्षत्रचन्द्रयोगस्य चरमसमये द्वापतितमपौर्णमासी परिसमाप्तिकाले पञ्चमाभिवर्द्धितसंवत्सरस्य पर्यवसानं भवतीति । अथ सूर्य नक्षत्रयोगमाह-'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् उत्तराषाढानक्षत्रचरम समयचन्द्रयोगरूपे समये च खलु 'सरिए सूर्यः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह 'जोयं जोएड' योगं युनक्ति ? भगवानाह-'ता पुस्सेणं' इत्यादि, 'ता' तावत् पुस्सेणं' पुष्येण सह योगं युनक्ति । अस्य मुहूर्त्तादिकमाह-'पुस्सस्स णं इत्यादि, 'पुस्सस्स णं' पुष्यस्य पुष्यनक्षत्रस्य खलु 'एगूणवीस मुद्दुत्ता' एकोनविंशतिर्मुहूर्ताः 'मुहुत्तस्स' एकस्य मुहूर्तस्य च 'तेयालीसं च वावटिभागा' त्रिचत्वारिंशच्च द्वाषष्टिभागाः, 'वावद्विभागं च सत्तद्विहा छित्ता' द्वाषष्टिभागं च सप्तपष्टिधा छित्त्वा 'तेत्तीस चुणिया भागा' त्रयस्त्रिंशत् चूर्णिकाभागाः सप्तषष्टिभागाः (१९१४३ ३३) 'सेसा' शेपाः अवशिष्टास्तिष्ठेयुस्तदा सूर्यः पुण्यनक्षत्रेण सह योग युनक्तीति । एतदेव गणितेन प्रदर्श्यते-अत्रापि स एव ध्रुवराशिः (६६।५।१) द्वाषष्टया गुण्यते, जातानि विनवत्यधिकानि चत्वारिंशन्मुहूर्तशतानि, एकस्य च मुहूर्तस्य दशोत्तराणि त्रीणि शतानि द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागाः (४०९२।३१०।६२) । अत्र च पाश्चात्ययुगस्य परिसमाप्तिः पुष्यस्य दशसु मुहूर्तेषु, एकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेषु.(१०।१८।३४) अतिक्रान्तेषु भवति, तदनन्तरमन्यद् वर्तमानं युगं प्रवर्त्तते, तत एतदपि युगं भूयोऽपि पुष्यस्य तावन्मात्रेष्वेव मुहूर्तादिष्वतिक्रान्तेषु परिसमाप्तिमेति तत एतावत्प्रमाण एकः परिपूर्णी नक्षत्रपर्यायो भवति स च-एकोनविंशत्यधिकानि अष्टौ मुहूर्तशतानि एकस्य च मुहूर्तस्य चतुर्विशति षिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्त
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy