________________
पन्द्रहातप्रकाशिकाटोका प्रा.११ सू०१ संवत्सराणामादिस्वरूपनिरूपणम् ४८५ ज्जा' इति वदेत् वदतु हे भगवन् ! भगवानाह-'ता जेणं' इत्यादि, 'ता' तावत् 'जे णं' यत्खलु तच्चस्स अभिवइढियसंवच्छरस्स' तृतीयस्याभिवर्द्धितसंवत्सरस्य 'पज्जवसाणे' पर्यवसानं 'से णं' तत्खलु 'चउत्थस्स चंदसंवच्छरस्स' चतुर्थस्य चान्द्रसंवत्सरस्य 'आई' आदिः कीहक् समयः? इत्याह- 'अणंतरपुरक्खडे समए' अनन्तरपुरस्कृतः पुरोभागरूपः समयः अनन्तरः अन्तररहितः पुरस्कृतः पुरोभागरूपः समयः । पर्यवसानसमयं पृच्छति- 'ता से ' इत्यादि, 'ता' तावत् 'से गं' स खलु चतुर्थश्चान्द्रसंवत्सरः 'किं पज्जवसिए' किं पर्यवसितः । कीदृक् पर्यवसानवान् 'आहिए' आख्यातः ? 'तिवएज्जा' इति वदेत् वदतु हे भगवान् ! भगवानाह-- 'ता जेणं' इत्यादि 'ता' तावत् 'जे णं' यः खलु 'चरिमस्स' चरमस्य पञ्चमस्य 'अभिवढियसंवच्छरस्स' अभिवर्द्धितसंवत्सरस्य 'आई' आदिः 'सेणं' स खलु 'चउत्थस्स चंदसंवच्छरस्स' चतुर्थस्य चान्द्रसवत्सरस्य 'पज्जवसाणे' पर्यवसानं भवति, स कोहक समयः ? इत्याह- 'अणंतरपच्छाकडे समए' अनन्तर श्चात्कृतः अनन्तरः अन्तररहितः पश्चात्कृतः चतुर्थसंवत्सरस्यान्तभागरूपः समयः। अथ चन्द्रस्य नक्षत्रयोगमाह-- 'तं समयच' इत्यादि, 'तं समयं च णं' तस्मिन् चतुर्थचान्द्रसंवत्सरपर्यवसानभूत समये च खल्लु 'वंदे चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह 'जोयं' जोएइ' योगं युनक्ति ? भगवानाह-'ता उत्तराहि' इत्यादि, 'ता' तावत् 'उत्तराहिं आसाढाहिं' उत्तराभिरापाढाभिः उत्तरापादानक्षत्रेण सह योगं युनक्ति । अथास्य मुहूर्त्तादिकमाह-'उत्तराणं' इत्यादि, 'उत्तराणं आसाढाणं' उत्तराणामापाढानां नक्षत्रस्य 'उणयालीस मुहुत्ता' एकोनचत्वारिंशन्मुहर्ताः, 'मुहुत्तस्स' एकस्य मुहूर्तस्य 'चत्तालीसं च वावद्विभागा' चत्वारिंशच्च द्वापष्टिभागाः, तद्गतं 'वावद्विभागं च' द्वापष्टिभागं च 'सत्तट्टिहा छित्ता' सप्तपष्टिधा छित्त्वा विभज्य तत्सम्बन्धिनः 'चउस' चतदेश 'चुण्णियाभागा' चूर्णिका भागाः सप्तषष्टि भागाः(३९।४।१४) 'सेसा' शेपा अवशिष्टास्तिष्ठेयुस्तदा चन्द्रः उत्तरापाढानक्षत्रेण सह योगं युनक्तीति । कथमिति गणितं प्रदर्श्यते-चतु
चान्द्रसंवत्सरपर्यवसानमेकोनपञ्चाशत्तमपौर्णमासी:भिर्भवतीति स एव ध्रुवराशिः (६६।५।१) एकोनपञ्चाशता गुण्यते, जातानि चतुस्त्रिशदधिकानि द्वात्रिंशन्मुहर्तशतानि, एकस्य च मुहूर्तस्य पञ्चचत्वारिंशदधिके द्वे शते द्वापष्टि भागानाम्, एकस्य च द्वापष्टिभागस्य एकोनपञ्चाशत् सप्तषष्टिभागाः (३२३४।२४५/४९) तत एतस्मात् प्रागुक्तं सकलनक्षत्रपर्यायपरिमाणं (८१९।२४६६) त्रिभिर्गुणितम् (२४५७/७२।१९८) पूर्वस्माद्राशेः (३२३४।२४५/४९) शोधिते पश्चात् स्थितानि सप्तसप्तत्यधिकानि सप्तशतानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य सप्तत्यधिकमेकं शतं द्वाषष्टि भागानाम् , एकस्य च द्वाषष्टिभागस्य द्विपञ्चाशत् सप्तषष्टिभागाः (७७७।१७०५२) एतस्माद राशेः चतुः सप्तत्यधिकसप्तशतमुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशति षिष्टिभागाः, एकस्य