________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.११ सू.१ संवत्सराणामादिस्वपनिरूपणम् ४८३' अभिवडूढिय संवच्छरस्स' तृतीयस्याभिवर्द्धितसंवत्सरस्य. 'पज्जवसाणे' पर्यवसानम्-अन्तः, स. कीदृशः समयः इत्याह-'अणंतरपच्छा कडे समए' अनन्तरपश्चात्कृतः-अन्तररहितो पश्चाद् भाग:रूपः समयः अथ चन्द्रयोगमाह-'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् तृतीयाभिवद्धिसंवत्सरस्य पर्यवसानरूपे समये च खलु 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह 'जोयं जोएइ' योगं युनक्ति ! । भगवानाह-'ता उत्तराहि' इत्यादि 'ता' तावत् 'उत्तराहि आसाढाहिं' उत्तराभिराषाढाभिः, उत्तरापाढानक्षत्रेण सह चन्द्रो योगं युनक्ति । तत्रापि मुहूर्तादि कमाह-'उत्तराणं' इत्यादि, 'उत्तराणं आसाढाणं' उत्तराणामापाढानाम् उत्तरापाढानक्षत्रस्य 'तेरस मुहुत्ता ।' त्रयोदश मुहूर्ताः 'मुहुत्तस्स' एकस्य मुहूर्तस्य 'तेरस य वाद्विभागा' त्रयोदश, च द्वापष्टिभागाः, 'वावहिभागं च' द्वापष्टि भागं च 'सत्तहिहा छित्ता' सप्तपष्टिधा छित्त्वा विभज्य 'सत्तावीसं चुण्णिया भागा' सप्तविशतिश्चूर्णिका भागा (१३।१३।२७) 'सेसा' शेषा अवशिष्टाः तिष्ठेयुस्तदा चन्द्र उत्तराषाढानक्षत्रेण सह योगं युनक्तीति भावः । अस्य गणितप्रकारः प्रदीते.. तृतीयाभिवर्द्धितसंवत्सरस्य परिसमाप्तिः सप्तत्रिशता पौर्णमासी मिर्भवतीति स एव ध्रुवराशि (६६।५।१।) सप्तत्रिंशता गुणनीयः, ततो जातानि द्वाचत्वारिशदधिकानि चतुर्विंशतिमुहूर्तशतानि; एकस्य मुहूर्तस्य पञ्चाशीत्यधिकशतसंख्यका द्वापष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्तत्रिंशत् सप्तपष्टिभागाः (२४४२।१८५/३७) । तत एतस्माद्राशेः एकोन विंशत्यधिकानि अष्टौ मुहर्तशतानि, एकस्य च मुहूर्तस्य चतुर्विशति पिष्टि भागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टि भागाः (८१९।२४।६६) इति सकलनक्षत्रपर्यायपरिमाणं द्वाभ्यां गुणयित्वा शोध्यते; ततो द्वाभ्यां गुणितो जातो राशि:-अष्टत्रिंशदधिकानि षोडश शतानि मुहूर्तानाम् एकस्य मुहूर्तस्य एकोन पञ्चाशद् द्वापष्टिभागाः, एकस्य च द्वाषष्टिभागस्य पञ्चपष्टिः सप्तपष्टिभागाः (१६३८ । ४९ । ६५)। एष राशिः पूर्वप्रदर्शितराशेः (२४४२११८५३७।।) शोध्यते, शोधिते च स्थितः पश्चाद् राशि:- चतुरधिकानि अष्टौ मुहूर्तशतानि, तत् सम्बन्धिन पञ्चत्रिंशदधिकमेकं शतं द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य एकोनचत्वारिंशतत्सप्त षष्टिभागाः (८०४।१३५/३९) एतावद्रूपः । तत एतस्माद्राशेः चतुः सप्तत्यधिकसप्तशतमुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशति-पष्टिभागाः एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तषष्टि भागाः (७७४।२४।६६) अभिजित आरभ्य पूर्वाषाढा पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चाद्-एकत्रिंशन्मुहूर्ताः, एकस्य च मुहर्तस्याष्टचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चत्वारिंशत् सप्तषष्टिभागाः (३१।४८१४०) तत आगतम्-तृतीयाभिवर्द्धितसवत्सर पर्यवसानसमये उत्तराषाढानक्षत्रस्य पञ्च चत्वारिशन्मुहूर्तात्मकत्वात्तस्य त्रयोदश मुहूर्ताः, एकस्य च मुहूर्तस्य त्रयोदश द्वाषष्टि भागाः, एकस्य च द्वाषष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः (१३॥