________________
चन्द्राप्तिप्रकाशिकाटीकाप्रा. ११ सू०१
सवत्सराणामादिस्वरूपनिरूपणम् ४७७
समये च खलु चन्द्रः केन नक्षत्रेण योगं युनक्ति ?, तावत् उत्तराभिरागढाभि उत्तराणामापादानां चरमसमये, तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण योगं युनक्ति, तावत् पुष्येण, पुण्यस्य खलु एकोनविंशतिर्मुहर्त्ताः, त्रिचत्वारिंशच्च द्वापप्रिभागाः मुहूर्त्तस्य, द्वापष्टिभाग सप्तपष्टिधा छित्त्वा त्रयस्त्रिंशच्चूर्णिकाभागा शेषाः ॥ ११॥
कादशं प्राभृतं समाप्तम् ॥ ११ ॥
व्याख्या -- 'ता कहते' इति 'ता' तावत् 'क' कथं केन प्रकारेण हे भगवन्' 'ते' त्वया 'सबच्छराणामाई' संवत्सराणामादि' 'आहिए' भाख्यातः ? 'तिवएज्जा' इति वदेत् वदतु कथयतु । भगवानाह - ' तत्थ खलु' इत्यादि, 'तत्थ खलु' तत्र संवत्सराणामादि विषये खलु–निश्चयेन ‘इमे' इमेऽग्रे वक्ष्यमाणाः 'पंच संवच्छरा' पञ्च संवत्सराः 'पण्णत्ता' प्रज्ञप्ताः कथिताः ‘तं जहा' तद्यथा ते इमे यथा - 'चंदे' चान्द्रः चान्द्रः संवत्सर प्रथम' ' 'चंदे' चान्द्र. पुनरपि चान्द्रसंवत्मरो द्वितीयः २, 'अभिवढिए' अभिवद्धितः अभिवर्द्धित' संवत्सर - स्तृतीया. ३, 'चंढे' चान्द्रः पुनश्च चान्द्रः संवत्सश्चतुर्थ ४, 'अभिवइदिए' अभिवर्द्धितः अभिवर्द्धितसंवत्सरः पञ्चम' ५ एते पञ्चसंवत्सरा कथिताः । एतेषां स्वरूपं पूर्व प्रदर्शित मेवेति । अथ संवत्सराणामादि पृच्छति- 'ता एएसिंग' इत्यादि, 'ता' तावत 'एएसिणं' एतेषां पूर्वोक्तानां खलु ‘पंचण्हं संवच्छरणं' पञ्चानां संवत्सराणा मध्ये 'पढमस्स' प्रथमस्य 'चंद संवच्छ रस्स' चान्द्रसंवत्सरस्य चान्द्राभिधसवत्सरस्य ' के आई' क' आदिः 'आहिए' आख्यात' ?, 'तिवए' इति वदेत् कथयतु हे भगवन् ' भगवानाह - 'ता जेणं' इत्यादि 'ता' तावत् 'जे णं' यत् स्वछ पाश्चात्ययुगवर्त्तिन पञ्चमस्याभिवद्धितसंवत्सरस्य 'पज्जवसाणे' पर्यवसानम् अन्तिमसमयः 'से णं' स खलु समय: ' पढमस्स चंद संवच्छरस्स' प्रथमस्य चान्द्रसंवत्सरस्य 'आई' आदिरस्ति, स कीदृगः समयः ? इत्याह- 'अणंतर पुरक्खडे समए' अनन्तर पुरस्कृतः समयः पाश्चात्ययुगवर्तिपञ्चमाभिवर्द्धितः संवत्सरादन्नररहित आगामी यः समयः स इति । भयं प्रथमसंवत्सरस्यादिः कथितः, साम्प्रतं पर्यवसानसमयविषये प्रश्नोत्तरमाह - ' ता से णं' इत्यादि, 'ता सेणं' तावत् स खलु प्रथमश्चान्द्रसंवत्सरः किं पर्यवसितः कि पर्यवसानवान् 'आहिए' आख्यातः ' 'तिवएज्जा' इति वदेत् वदतु । उत्तरमाह - ' ता जे णं' इत्यादि, 'ता' तावत् 'जेणं' यः खलु' 'दोच्चस्स चंद संवच्छरस्स' द्वितीयस्य चान्द्र संवत्सरस्य 'आई' आदिः 'से णं' स खलु 'पढमस्स चंदसंवच्छरस्स' प्रथमस्य चान्द्र सवत्सरस्य 'पज्जवसाणे' पर्यव - सानम् अन्तिमसमयः कीदृश: 'अणतरपच्छाकडे समए' अनन्तरपश्चात्कृतः, अनन्तर अन्तररहितः य पश्चात्कृतः अतीतः समयः स इति । अथ तत्समये चन्द्रयोगं पृच्छति 'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् सवत्सरपर्यवसानभूते समये खलु चंदे चन्द्रः 'केणं णक्खणं जोयं जोएइ' केन नक्षत्रेण सह योगं युनक्ति योगं करोत् इति प्रश्नः । इह
भমর