________________
४७२
चन्द्रप्राप्तिसूत्रे ऐरवतक्षेत्रप्रकाशकोऽपि सूर्यः 'गइसमावण्णए भवइ' गतिसमापन्नको गतियुक्तो भवति । 'जया णं' यदा खल 'इयरे सरिए' इतरः ऐरावतक्षेत्रप्रकाशकारी सूर्यः 'गइसमावण्णए भवई' गतिसमापन्नको गतियुक्तो भवति 'तया णं' तदा तस्मिन् काले खल विवक्षिते मण्डले 'इमे वि सुरिए' अयमपि भरतक्षेत्रप्रकाशकोऽपि सूर्यः 'गइसमावण्णए भवई' गतिसमापन्नकः गतिमान् भवति । भरतक्षेत्रसूर्य. ऐरवतक्षेत्रसूर्यश्चेत्युभावपि सूर्यो स्वस्व क्षेत्रे स्व स्व विवक्षितमण्डले समकालमेव चारं चरत इति भावः । एवं गहावि, एवम्-अनेनैव रीत्या ग्रहा अपि भरतक्षेत्रचारिणः ऐरखतक्षेत्र चारिणचे त्युभयेपि ग्रहाः परस्परं समकालमेव स्व स्व क्षेत्रे विवक्षितमण्डले चारं चरन्ति, इतिभावः । तथा एवमेव 'नक्खत्तावि' नक्षत्राण्यपि भरतक्षेत्रचारीणि ऐरवतक्षेत्रचारीणि चेत्युभयान्यपि नक्षत्राणि परस्परं स्व स्व विवक्षितमण्डले गतियुक्तानि भवन्ति, इति भावः । अथैतेषामेव योगविपये प्राह-'ता जया णं इमे चंदे जुत्ते जोगेणं' इत्यादि, 'ता' तावत् 'जया णं' यदा • यस्मिन्न काले खल 'इमे चंदे' अयं भरतक्षेत्रचारी चन्द्रः जुत्ते' जोगेणं' येन योगेन युक्तो भवति 'तया णं' तदा तस्मिन् काले खल 'इयरे वि चंदे' इतरोऽपि ऐरवतक्षेत्रस्थोऽपि चन्द्रः 'जुत्ते जोगेणं भवई' तेनैव योगेन युक्तो भवति । 'जया णं' यदा यस्मिन् काले खलु 'इयरे चंदे' इतरः ऐवतक्षेत्रस्थश्चन्द्रः 'जुत्ते जोगेणं भवई' येन योगेन युक्तो भवति 'तया णं' तटा तस्मिन् काले खलु 'इमे वि चंदे' अयमपि भरतक्षेत्रस्थश्चन्द्रः 'जुत्ते जोगेणं भवई' तेनैव योगेन युक्तो भवति । भरतक्षेत्रस्थश्चन्द्रः ऐरवतक्षेत्र स्थश्चन्द्रश्चेत्युभावपि चन्द्रौ समकालमेव स्वस्त्रक्षेत्रे स्व स्व मण्डले समयेसु युक्ती भवत इति भावः । ‘एवं' एवम्-अनेनैव रीत्या 'सूरे वि सृर्योऽपि 'गहावि' ग्रहा अपि 'णक्खत्तावि' नक्षत्राण्यपि सूर्यग्रहनक्षत्राण्यपि भरतैरवतक्षेत्रचारीणि परस्परं स्वक्षेत्रे स्त्र स्व मण्डले समकालं समानयोगयुक्तान्येव भवन्तीति तात्पर्यम् । अथोपसहरन मदाकालविषये प्राह-'सया विणं' इत्यादि, 'सया वि णे' सदापि सर्वकालेऽपि खल 'चंदा' चन्द्रौ भग्तैरवतक्षेत्रवत्तिनौ द्वावपि चन्द्रौ 'जुत्ता जोएहि' युक्तो योगैः समचार चारिणौ भवतः । एवं 'सया वि णं' सदापि खलु 'सूरिया' सूर्यो 'जुत्ता जोगेहिं योग युक्ती समरूपावेव भवतः । 'सयावि णं' सदापि खलु 'गहा ग्रहाः जुता जोगेहिं योगैर्युक्ता समरूपा एव भवन्ति । 'मयावि गं' सदापि खलु ‘णक्खत्ता' नक्षत्राणि 'जुत्ताजोगेहिं योगैर्युतानि समरूपाण्येव भवन्ति । अथ दिशमाश्रित्य प्राह-'दुहओ वि णं' इत्यादि, 'दुहयो वि णं' उभयनोऽपि दक्षिणोत्तरयो. पूर्वपश्चिमयोर्वा खल 'चंदा' चन्द्रौ 'जुत्ता जोगेहि योगैर्युक्तौ समरूपेणैव भवतः । एवम् 'दुडओ वि णं' उभयतोऽपि दक्षिणोत्तरयो पूर्वपश्चिमयोर्वा 'सूरिया' सूर्यो 'जुत्ता जोगहि' योगयुक्तौ समरूपेणव भवतः । 'दुहओ विण' उभयतोऽपि खलु 'गहा' ग्रहाः 'जुत्ताजोगेटिं' योगैर्युका समन्छपेगैव भवन्ति दुहओ विणं' उभयतोऽपि खलु 'णक्खत्ता' नक्ष