________________
चन्द्रनप्तिप्रकाशिकाटीका प्रा.१०प्रा.प्रा.२२ सू.११ नक्षत्रक्षेत्रपरिभागनिरूपणम् ४७३ त्राणि 'जुत्ता जोगेहि' योगैर्युक्तानि समरूपेणैव भवन्ति । अथ प्राभृतोपसंहारमाह-'मंडलं' इत्यादि 'णक्खत्तविचए' अस्मिन् नक्षत्रविचये नक्षत्रविचयनाम्नि दशमस्य प्राभृतस्य 'पाहुडेत्ति' द्वाविंशतितमे प्राभृतप्रामृते 'इच्चेस' इत्येषः पूर्व प्रतिपादितः ‘णक्खत्तखेत्तपरिभागे' नक्षत्रक्षेत्र परिभागः उपलक्षणात् चन्द्रसूर्यग्रहनक्षत्रक्षेत्रपरिभागः 'आहिए' आख्यातः कथितः कथमित्याह'मंडलं' मण्डलं चन्द्रादिमण्डलं स्वेन स्वेन क्षेत्रद्वयसमिलितैः पट् पञ्चाशता नक्षत्रै र्यावन्मानं क्षेत्रं व्याप्यमानं संभाव्यते तावन्मात्रं क्षेत्रं वुद्धिपरिकल्पितं 'सयमहस्सेणं अद्राणउयाए सरहिं शत सहनेण-लक्षण-अष्टानवत्याच शतैः अष्टानवतिशताधिकेन लक्षण एकेन लक्षेण नव सहनैः अष्टशतैः नव सहस्राधिकाप्टागतोत्तरेणैकेन लभेणेत्यर्थः (१०९८००) 'छित्ता' छित्वा विभज्य व्याख्यातः, एप नक्षत्रक्षेत्रपरिभागः नक्षत्रवियचनामकं प्राभृतप्राभृतमस्नोति ख्यातमिति भावः । 'तिवेमि' इति ब्रवीमि, इति--एतदनन्तरोक्तं सर्व ब्रवीमि यथा भगवन्मुखान्छूतं तथैव कथयामोति सुधर्मस्वामिवचनमेतत् । अथवा शिष्याणां विश्वासदाढ!त्पादनार्थ कथयति-एतद् भवगद्वचनं ततः सर्व सत्यमेवेति व्रतीमि ततो भवद्भिः सर्व सत्यमिति प्रत्येतव्यमेवेति ॥ सूत्रम् ११॥
दशमस्य प्राभृतस्य द्वाविंशतितमं प्राभृत प्रामृतं समाप्तम् ॥१०॥२२॥ इति श्री-विश्वविख्यात--जगदल्लभ-प्रसिद्धवाचक पञ्चदशभापाकलितललितकलापालापक
प्रविशुद्धगद्यपयनैकग्रन्थनिर्मापक-वादि-मानमर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजप्रदत्त 'जैनशास्त्राचार्य' पदभूपित कोल्हापुरराजगुरु वालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलाल व्रतिविरचितायां 'चन्द्रप्रज्ञप्ति' सूत्रस्य चन्द्राप्ति
प्रकाशिकाख्यायां व्याख्यायाम् दशमं प्रामृतं समाप्तम् ॥१०॥