SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रतिसूत्रे ૩૬૮ इत्यादि, 'ता' तावत् ‘जज्ज' अद्य विवक्षिते दिने 'जेणं णक्खत्तेणं' येन नक्षत्रेण 'चंदे' चन्द्रः 'जोयं जोएइ' योगं युनक्ति 'जसि देसंसि' यस्मिन् देशे 'से णं' स खलु चन्द्र: 'इमाई', इमानि वक्ष्यमाणसंख्यकानि, तान्येवाह - 'चउप्पण्णमुहुत्तसहस्साई' चतुष्पञ्चाशन्मुहूर्त्तसहस्राणि 'णवयमुहुत्तसया' नव च मुहूर्त्तशतानि (५४९००) 'उवाइणाविचा' उपादाय अतिक्रम्य 'पुनरवि' पुनरपि भूयोऽपि ' से चंदे' स चन्द्र 'अण्णेणं तारिसएणं चेच णक्खत्तेण' अन्येन तादृशेनैव, नक्षत्रेण 'जोयं जोएईं' योगं युनक्ति करोति, कुत्रेत्याह- 'तंसि देसंसि' तस्मिन्नैव देशे, इति । अत्र भावना 1 त्थम् - विवक्षिते युगे विवक्षितानामष्टाविंशति नक्षत्राणां मध्ये येन नक्षत्रेण सह यस्मिन् देशे यदा चन्द्रस्य योगो जातस्ततो भूयस्तस्मिन्नेव देशे तदैव तेनैव नक्षत्रेण सह योगो विवक्षितयुगादारभ्य - तृतीये युगे भवति, न तु द्वितीये, कुतः ? इत्याह--दह युगादित आरभ्य प्रथमे नक्षत्रमासे एकानि अष्टाविंशतिनक्षत्राणि समतिक्रान्तानि द्वितीयेन नक्षत्रमासेन तेम्योऽपराणि द्वितीयानि, ततो भूयस्तृतीयेन नक्षत्रमासेन तान्येव प्रथमान्यष्टाविंशतिं नक्षत्राणि, चतुर्थेन भूयस्तान्येव द्वितीयानि अष्टाविंशति नक्षत्राणि समतिक्रान्तानीति । एवं सकलकालम् | युगे च नक्षत्रमासाः सप्तषष्टिः । सा च सप्तषष्टिसंख्या विपमेति विवक्षितयुगपरिसमाप्तिकालेऽन्यस्य युगस्य प्रारम्भे यानि विवक्षितयुगस्यादौ भुक्तानि नक्षत्राणि सन्ति तेभ्योऽपरान्येव द्वितीयानि नक्षत्राणि भोगमुपयान्ति, किन्तु न तान्येव युगद्वये च चतुस्त्रिंशदधिकमेकं शतं (१३४) मासानां भवति । सा च चतुत्रिंशदधिकशतसंख्या नक्षत्रमासानां समेति द्वितीय युगपरिसमाप्तिकाले पट्पञ्चाशदपि नक्षत्राणि समाप्तिमुपगच्छन्ति, ततो विवक्षितयुगादारभ्य तृतीये युगे तेनैव नक्षत्रेण तस्मिन्नेव देशे तदा चन्द्रस्ययोगो भवति । युगे चाहोरात्राणामष्टादशशतानि त्रिंशदधिकानि (१८३०) एकैकस्मिश्चाहोरात्रे मुहूर्त्तास्त्रिगद् भवन्तीत्यतस्त्रिशदधिकानामष्टादशशतानां (१८३०) त्रिंशता गुणने भवति यथोक्ता - संख्या चतुष्पञ्चाशद् मुहर्त्तसहस्राणि नवगताधिकानि ( ५४९००), इति । यथोक्तमुहूर्त्त - संख्यातिक्रमे च तादृशेनैव अन्येन नक्षत्रेण सह चन्द्रस्य योगस्तस्मिन्नेव देशे भवति, किन्तु न तेन नक्षत्रेण नान्यस्मिन् वा देशे, इति । पुनरप्याह - 'ता जेणं' इत्यादि, 'ता' तावत् 'अज्ज' अद्य 'जे णं णक्खत्तेणं' येन नक्षत्रेण 'चंदे' चन्द्र' 'जोयं जोएड़' योगं युनक्ति 'जंसि देसंसि ' यस्मिन् देशे ‘से णं' स खलु चन्द्रः 'इमाइ' इमानि वक्ष्यमाणसंख्यकानि, तान्येव ' प्रदइर्यन्ते'एगं मुहत्तसयस हस्तं ' एकं मुहूर्तातसहस्रम् 'अट्ठाणउड़ च मुहत्तसयाई' अष्टनवति च मुहूर्तशतानि, अर्थात् एकं लक्ष्य, नवसहस्राणि अष्ट गतानि मुहूर्तानाम् (१०९८००) 'उवाइणावित्ता' उपादाय - अतिक्रम्य, 'पुनरवि' पुनरपि 'से चंदे' स चन्द्र. 'ते णं णक्खततेणं' तेन नक्षत्रेण 'जोयं जोएड' योगं युनक्ति 'तंसि देसंसि' तस्मिन् देशे । भावनापूर्ववदेव, विशेषस्त्वेतावानेव -अत्र युगकाल. - पयधिक पशिन (३६६९ ) प्रमिताऽहोरात्राणामस्ति, तत एप राशिरेकैक -
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy