SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीकाप्रा.१०प्रा०प्रा.२२सू.१० नक्षत्रेण सह योगकालनिरूपणम् ४६७ एतावत्परिमितो नक्षत्रमासः । तत एतद् योगपरिसमाप्त्यनन्तरं यद् अभिजिन्नक्षत्रमतिक्रान्तं तदपरेण द्वितीयेनामिजिनक्षत्रेण सह नवमुहूर्तादिकालं चन्द्रो भोगमुपागच्छति ततः परमपरेण द्वितीयेनाष्टाविंशतिनक्षत्रसम्बन्धिना श्रवणनक्षत्रेण सह चन्द्रो योगमश्नुते, एवं पूर्ववदेव तावद् वाच्यं यावदुत्तरापादानक्षत्रम् । तदनन्तरं भूयः प्रथमेनवाभिजिन्नक्षत्रेण सह योगमुपागच्छति । ततः प्रागुक्तक्रमण श्रवणादिभिः एवं सकल कालमपि विजेयम् ततो विवक्षिते दिने यस्मित् देशे येन नक्षत्रेण सह चन्द्रो योगमगच्छत् , स यथोक्त-मुहूर्तसंख्यातिक्रमे पुनस्तादृशेनैवापरेण नक्षत्रेण सह अन्यस्मिन् देशे योगमश्नुते किन्तु न तेनैव नापि च तस्मिन् देशे इति पुनरप्याह-'ता जेणं' इत्यादि, 'ता' तावत् 'अज्ज' अद्यविवक्षिते दिने 'जेणं णक्खत्तेणं' येन नक्षत्रेण सह 'चंदे' चन्द्रः 'जोयं जोएइ' योगं युनक्ति-करोति 'जंसि देससि' यस्मिन् देशे 'से गं' स खलु चन्द्रः 'इमाइ" इमानि वक्ष्यमाणानि, तान्येवाह-'सोलसअतिसाई मुहत्तसयाई' पोडश अष्टत्रिंशानि अष्टत्रिंशदधिकानि पोडश मुहत्तंगतानि 'अउणापण्णं च बावहिभागे मुहत्तस्स' एकोनपञ्चाशतं च द्वाषष्टिभागान् मुहूर्तस्य, तथा 'वाचट्ठिभागं च' एकं द्वापष्टिभागं च 'सत्तट्टिहा छित्ता' सप्तपष्टिघा छित्त्वाविभज्य तत्सम्बन्धिनः 'पण्णहिँ चुणिया भागे' पञ्चपष्टिं चूर्णिकाभागान् (१६३८-१९६५ ) ६२६७ 'उवाइणावित्ता' उपादाय गृहोत्वा अतिक्रम्येत्यर्थः 'पुनरवि' पुनरपि 'से णं चंदे स खलु चन्द्रः 'ते णं चेव णक्खत्तेणं' तेनैव नक्षत्रेण 'जोयं जोएइ' योगं युनक्ति, कुत्रेत्याह-'अण्णसिदेसंसि' अन्यस्मिन् देशो, किन्तु न तस्मिन्नेव देशे । कुतः ? इत्याह इह पुनस्तस्मिन्नेव तेनैव नक्षत्रेण सह योगो युगदृयकालातिक्रमे यथार्थः केवल वेदसा ज्योतिश्चक्रगते रुपलब्धः । जम्बूद्वीपे च पट्पञ्चाशदेव नक्षत्राणि, ततो विवक्षितनक्षत्रयोगे सति तत आरभ्य पट्पञ्चाशन्नक्षत्रातिक्रमे तेन नक्षत्रेण सह योगमश्नुते । पट्पश्चाशन्नक्षत्रातिक्रमश्च प्रागुक्ताष्टाविंशतिनक्षत्रमुहूर्तसंख्याद्विगुणसंख्यया भवति, भष्टाविंशति नक्षत्रमुहर्त्तसंख्या च एकोनविंशत्यधिकानि अष्टमुहूर्तशतानि, एकस्य च मुहूर्तस्य चतुर्विंशति-पष्टिभागाः, एकस्य च द्वापष्टिभागस्य पट् पष्टिः सप्तपष्टिभागाः ( ८१९-२४६६ ) इति प्राक्प्रदर्शितमेव, तद्विगुणा यथोक्ता संख्या भवति, तत उक्तम् 'सोलस अद्वतीसाई मुहुत्तसयाई' इत्यादि । तदेवं तादृशेन तेन वा-नक्षत्रेण सह अन्यस्मिन् यावता कालेण पुनरपि योगः समुपजायते तावान् कालविशेषः प्रतिपादितः, साम्प्रतं तस्मिन्नेव देशे तादृशे तेन वा नक्षत्रोण सह पुनरपि यावता कालेन योगो भवति तावन्तं कालविशेष प्रतिपादयन्नाह-'ता जेणं अज्ज णक्खतेण । ६२/
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy