SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ६२/६७ ४६६ . चन्द्रप्राप्तिसूत्रे 'पुणरवि से चंदें पुनरपि स चन्द्रः 'अण्णेणं सरिसएणं चेव णक्खत्वेणं' अन्येन अपरेण सदृश केनैव सदृशनामकेन नक्षत्रेण 'जोयं जोएइ' योगं युनक्ति-करोति, कुत्रेत्याह 'अण्णंसि देसंसि अन्यस्मिन् देशे, न तु तत्रैवेति । अत्रेयं भावना-इह चन्द्र-सूर्य-नक्षत्राणां मध्ये नक्षत्राणि सर्व शीघ्रगतीनि, तेभ्यः सूर्या मन्दगतयः, तेभ्योऽपि चन्द्रामन्दगतयः, एतच्चाने सूत्रकारः स्वयमेव वक्षति षट् पञ्चाशन्नक्षत्राणि प्रतिनियतापान्तरालदेशस्थितानि चक्रवालमण्डलतया व्यवस्थितानि सदाकालमेकरूपतया परिभ्रमन्ति तत्राष्टाविंशतिनक्षत्रेषु किल युगस्यादौ चन्द्रोऽभिजिन्नक्षत्रेण सह योग प्राप्नोति स च चन्द्रोऽभिजिन्नक्षत्रयोगमुपागतः सन् शनैः शनैः पश्चादवप्वष्कते अपसरति तस्य नक्षत्रेभ्योऽतीवमन्दगतित्वात, ततो नवानां मुहूर्तानाम्, एकस्य च मुहूर्तस्य चतुर्विशति द्वापष्टि भागानाम् एकस्य च द्वापष्टिभागस्य पट्पष्टिसप्तपष्टिभागानाम् (९-१) अतिक्रमे पुरतः श्रवणेन सह योगमुपगच्छति ततस्ततोऽपि शनैः शनैः पश्चादवप्वष्कमान स्त्रिंशता मुहूर्तः श्रवणेन सह योग समाप्य पुरतो धनिष्ठया सह योगं करोति । एवं नक्षत्राणां स्वं स्वं मुहूर्त्तस्थितिकालमाचक्ष्य सर्वैरपि नक्षत्रैः सह योगकारणं वक्तव्यं यावत्--उत्तरापाढानक्षत्रेण सह योगं करोति । एतावता च क्रालेनाष्टौ शतानि एकोनविंशत्यधिकानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य चतुर्विशति द्वाषष्टिभागाः, एकस्य च द्वापष्टिभागपट्पष्टिः सप्तपष्टिभागाः (८१९-४) भवन्ति, तथाहि ૬િ૨૬૭ तत्राष्टाविंशतिनक्षत्रेपु उत्तरा भाद्रपदा १, रोहिणि २, पुनर्वसुः ३, उत्तराफाल्गुनी ४, विशाखा ५, उत्तरापाढा ६ चेति पड् नक्षत्राणि पश्चचत्वारिंशन्मुहूर्तात्मकानीत्येते षट्, पश्चचत्वारिंशता गुण्यन्ते जाते सप्तत्यधिके द्वे शते (२७०), मुहूर्तानाम् , तथा शतभिषक् १, भरणो २, आर्द्रा ३, अश्लेषा ४, स्वातिः ५, ज्येष्टा ६ चेति पद नक्षत्राणि पश्चदशमुहूर्तात्मकानीति पद, पञ्चदशमिर्गुण्यन्ते जाता नवतिमुहूर्तानाम् (९०) । तथा-श्रवणः १, धनिष्ठा २, पूर्वभाद्रपदा ३, रेवती ४, अश्विनी ५, कृत्तिका ६, मृगशिरः ७, पुष्यः ८, मघा ९, पूर्वाफाल्गुनी १०, हस्तः ११, चित्रा ४२, अनुराधा १३, मूलम् १४, पूर्वाषाढा १५, चेति पश्चदशनक्षत्राणि त्रिंशन्मुहूर्तात्मकानीति पञ्चदश, त्रिंशता गुण्यन्ते जातानि पश्चाशदधिकानि चत्वारि शतानि (१५०) मुहर्तानाम् । तथा शेपमेकमभिजिन्नक्षत्रं, तच्च चतुर्विंशति द्वापष्टिभाग-पट् पष्टि सप्तपष्टिभाग युक्त नव मुहूर्तात्मकम् (९२३६६), तत एकस्यैतत्प्रमितेन गुणने जातं तदेव (९।२४।६६) . २४६६ एवं सर्वेषामष्टाविंशनिनक्षत्रमुहूर्तानामेकत्रमीलने यथोक्ता (८१९ ६६) मुहूर्तसंख्या । एप
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy