________________
चन्द्रशप्तिप्रकाशिका टोका प्रा १० प्रा. प्रा. २२ सू.५ सूर्यस्य पौर्णमासीपरिसमाप्तिदेशः ४३९ खलु देशे स्थितः सन् 'तं तं पुण्णमासिणि' तां तां विवक्षितां पौर्णमासी 'सरिए सूर्यः 'जोएइ' युनक्ति परिसमापयति । एवं तावद ज्ञातव्यं यावत् भूयोऽपि चरमां द्वापष्टितमां पोर्णमासी सूर्यः परिसमापयतीति । एतच्च गणितक्रमवशाद् ज्ञायते, तथाहि-पाश्चात्ययुगचरमद्वापष्टितम पौर्णमासी परिसमाप्तिसम्बन्धिस्थानात् परतो मण्डलस्य चतुर्विशत्यधिकशतविभक्तस्य सम्बन्धिनां चतुर्नवतिचतुर्नवति भागेपु समतिकान्तेपु तत्यास्तस्याः पौर्णमास्याः परिसमाप्तिर्भवतीति ततश्चतुर्नवति पिष्टया गुण्यते जातानि अष्टाविंशत्यधिकानि अष्टपञ्चाशच्छतानि-(५८२८) एपां चतुविंशत्यधिकेन शतेन भागे हृते लब्धाःसप्तचत्वारिशत् सकलमण्डलपरावर्ताः (४७) किन्तु न च तैः प्रयोजनम् केवलं राशनिर्लेपी भवनादागतम्-यस्मिन् देशे स्थितः सन् सूर्यः पाश्चात्ययुगसम्बन्धि चरमद्वापष्टितमपौर्णमासीपरिसमापकस्तस्मिन्नेव देशे विवक्षितस्यापि युगस्य चरमां द्वापष्टितमां पौर्णमासी परिसमापयतीति । अथ चरमद्वापटितम पोर्णमासी परिसमाप्तिसम्बन्धि देश पृच्छति-'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेपां खल 'पंचण्हं संवच्छराणं' पञ्चानां सवत्सराणां मन्ये 'चरिम' चरमां युगपर्यन्तवत्तिनीं 'यावट्टि द्वापष्टितमा 'पुण्णमा. सिणि' पौर्णमासी 'सूरिए' सूर्य 'कंसि देसंसि' कस्मिन् देशे स्थितः सन् 'जोइए' युनक्ति परिसमापयति ।। एवं गौतमेन पृष्टे भगवानाह 'ता जंबुद्दीवस्स णं' इत्यादि, 'ता' तावत् 'जंबुद्दीवस्स णं दीवस्स' जम्बूढीपस्य खलु द्वीपस्य 'पाइणपडीणाययाए' प्राची प्रतीच्यायतया, अत्रापि प्राचीग्रहणेन उत्तरपूर्वादिक् प्रतीचो ग्रहणेन च दक्षिणापरा गृह्यते, ततः-उत्तर पूर्वायतया दक्षिणापरायतया चेति । एवं 'उदीणदाहिणाययाए' उदीचीदक्षिणायतया, तत उदीचीग्रहणेन-अवरोत्तरा दक्षिणग्रहणेन पूर्वदक्षिणा गृह्यते, ततोऽयमर्थः अपरोत्तरायतया, पूर्वदक्षिणायतया च 'जीवाए' जीवया प्रत्यञ्चया दवरिकयेत्यर्थः 'मंडलं' मण्डलं 'चउव्वीसेणं सएणं' चतुर्वि गत्यधिकेन शतेन 'छित्ता' छित्त्वा विभज्य पुनश्चतुभिर्भक्त्वा 'पुरथिमिल्लं' पौरस्त्ये पूर्वदिग्वर्तिनि 'चउभागमंडलंसि' चतुर्भागमण्डले एकत्रिंशद्भागप्रमाणे तद्गतान् 'सत्तावीसं भागे' सप्तविंशति भागान् 'अट्ठावीसइभार्ग' अष्टाविंशतितमं भागं 'वीसहा छित्ता' विंशतिधा छित्त्वा तद्तान् ‘अट्ठारसमागे' अष्टादशभागान् ‘उवाइणा वित्ता' उपादाय 'तिहिं भागेहि' शेपै स्त्रिभिर्भागः, चतुर्थस्य च भागस्य 'दोहियकलोहि' द्वाभ्या च कलाभ्यां विंशतितमाभ्यां-दाहिणिल्लं' दाक्षिणात्य दक्षिणदिग्वर्त्तिनं च 'चउभागमंडलं' चतुर्भागमण्डलं 'असंपत्ते' असम्प्राप्तः सन् 'एत्थणं' अत्र खलु देशे 'सूरिए' सूर्यः 'चरिमं' चरमां युगान्तिमा 'वावदि द्वाषष्टितमां 'पुण्णमासिणिं' पौर्णमासीं 'जोएइ' युनक्ति परिसमापयतीति ।। सू० ५॥
अथ चन्द्रसूर्ययोरेवाऽमावास्यापरिसमाप्तिदेशं प्रतिपादयन् प्रथमं चन्द्रविषये सूत्रमाह-- 'ता एएसि ण' इत्यादि ।