SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४३८ चन्द्रप्रज्ञप्तिसूत्रे खलु देशे स्थितः सन् 'सूरिए सूर्यः ‘पढम' प्रथमां युगादौ प्रथमप्राप्तां 'पुण्णमासिणि' पौर्णमासी 'जोएई' युनक्ति 'ताओं' तस्मात् 'पुण्णमासिणिहाणाओ' पौर्णमासी स्थानात् युगादिप्रथम पौर्णमासी परिसमप्तिनिबन्धस्थानात् परतःमण्डलं 'चउव्वीसेणंसएणं' चतुर्विशत्यधिकेन शतेन 'छित्ता' छित्वा विभज्य तग्दतान् ‘चउणवइभागे' चतुर्नवति भागान् 'उबाइणावित्ता' उपादाय, 'एत्य णं' अत्र खलु अस्मिन् देशे स्थितः सन् ‘से सूरिए' स सूर्यः 'दोच्च पुण्णमासिणि' द्वितीयां पौर्णमासी 'जोएइ' युनक्ति परिसमापयति । अथ तृतीयपौर्णमासीविपये पृच्छति-'ता' तावत् 'एसिणं पंचण्ड सवच्छराणं' एतेषां खलु पञ्चानां सवत्सराणां मध्ये 'तच्च पुण्णमासिणि' तृतीयां पौर्णमासी 'मूरिए' मूर्यः 'कंसि देसंसि जोएइ' कस्मिन् देशे स्थितः सन् युनक्ति तृतीयपौर्णमासी समापयति । भगवानाह-'ता' तावत् 'जसि णं देससी' यस्मिन् खलु देशे स्थितः सन् 'सूरिए' सूर्यः 'दोच्च पुण्णमासिणि' द्वितीयां पौर्णमासी 'जोएइ' युनक्ति 'ताओ पुण्णमासिणिट्टाणाओ' तस्मात पौर्णमासी स्थानात् परतःमण्डलं 'चउन्बी सेणं सएणं' चतुर्विशत्यधिकेन अतेन 'छित्ता' छित्त्वा विभज्य तन्दतान् 'चउणवइभागे' चतुर्नवति भागान 'उवाइणावित्ता' उपादाय, 'एत्थ णं, अत्र खलु देशे 'से सूरिए' स सूर्यः 'तच्चं पुण्णमा सिणी' तृतीयां पौर्णमासी 'जोएइ' युनक्ति । एवमेव चतुर्थी पौर्णमासीत आरभ्य एकादशी पौणमासी पर्यन्तं स्वयमूहनीयम् । अथ तृतीयामधीकृत्य द्वादशी पौर्णमासी पृच्छति--- एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां खलु 'पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'दुवालसं पुण्णमासिणि' द्वादशी पौर्णमासी 'सूरिए' सूर्यः 'कंसि देसंसि' करिमन देशे स्थितः सन् 'जोएइ' युनक्ति परिसमापयति । भगवानाह-'ता' तावत् 'जसि णं देससि' यस्मिन् खलु देशे स्थित सन 'सरिए' सूर्यः 'तच्चं पुण्णमासिणि' तृतीयां पौर्णमासीं 'जोएइ' युनक्ति परिसमापयति 'ताओ पुण्णमासिणिहाणाओ' तस्मात् पौर्णमासीस्थानात् परतः 'मंडलं' मण्डलं 'चउवधीसेणंसएणं' चतु विंशत्यधिकेन शतेन 'छित्ता' छिन्वा विभज्य 'अछत्ताले भागसए' अष्ट पट्चत्वारिंशानि भागगतानि पट्चत्वारिंशदधिकानि अष्टगतानि भागानां, तृतीयस्याः पौर्णमास्याः परतो द्वादशी पौर्णमासीनवमी भवति, ततश्चतुर्नवतिर्नवभिर्गुण्यते, जायन्ते अष्टौ शतानि पट्चत्वारिंशदधिकानि (८.४६) एतावतो भागान् ‘उवाइणावित्ता' उपादाय, 'एत्थ णं' अत्रास्मिन् खलु देदो 'से सुरिए' स सूर्य. 'दुवालसम' पुण्णमासिणि' द्वादशी पौणमासी 'जोएइ' युनक्ति अथाऽनिदेशमाह-'एवं खलु' इत्यादि । ‘एवं' एवम् अनेनैव प्रकारेण खलु 'एसणं' एतेन पूर्वोक्तेन 'उवाएणं' उपायेन विधिना 'ताओ ताओ' तस्मात् तस्मात् विवक्षितात् 'पुण्णमासिणिहाणाओ' पौर्णमासी स्थानात णश्चात्यपाश्चात्यपौर्णमासीपरिसमाप्तिस्थानात 'मंडलं' मण्डलं 'चउन्धीसेणं' मएणं चतुर्वि शत्यधिकेन शतेन 'छित्ता' छित्त्वा परतस्तद्गतान् 'चउणवई चउणवई भागे' चतुर्नवनिं चतुर्नवति मागान् 'उवाइणावित्ता' उपादाय 'तंसि तंसि णं देसंसि' तस्मिन तस्मिन्
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy