________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा प्रा. २२ सू ४. पौर्णमास्यऽमावास्यानिरूपणम् ४३५
पयति । सचैवं परिसमापयन् तावद् वेदितव्यः यावद् भूयोऽपि चरमां द्वापष्टिं पौर्णमासी यस्मिन् देशे पाश्चात्ये युगे चरमां द्वापष्टिं पौर्णमासी परिसमापितवान् तस्मिन् देशे परिसमापयति कथं मेतदिति चेदत्र गणितक्रमं प्रदर्शयति-पाश्चात्ययुग चरमद्वापष्टितमपौर्णमासीपरिसमाप्तिस्था. नात् परतो मण्डलम्य चतुर्विशत्यधितशतविभक्तस्य सम्बन्धिनां द्वात्रिंशतो भागाना मतिक्रमे तस्यास्तस्याः पोर्णमास्याः परिसमाप्तिर्भवति । युगे सर्वसंख्यया पौर्णमास्यो द्वापष्टिर्भवन्ति, ततो द्वात्रिंशद् भागाद्वापष्टया गुण्यन्ते जातानि चतुरशीत्यधिकानि एकोनविशतिशतानि (१९८४) । एषां चतुर्विशत्यधिकेन गतेन (१२१) भागो हियते, लब्धाः पोडश सकलमण्डलपरावर्ताः (१६) समस्तत्यापिच राशनिलेपी भवनादागताया यस्मिन् देशे पाश्चात्ययुगसम्बन्धि चरमद्वापष्टितम पौर्णमासी परिसमाप्तिर्भवति सा । अथ चरमद्वापटितग परिसमाप्तिदेशविषयकं सूत्रमाह-'ता एएसिणं' इत्यादि । 'ता' तावत् युगे 'एएसि णं' एतेषां खलु 'पंचण्डं संवच्छराणं पञ्चानां संव-सराणां मध्ये 'चरमं' चरमां युगपर्यन्तवर्तिनीं 'वावर्हि पुण्णमासिणि' द्वापष्टिं पौर्णमासी 'चंदे' चन्द्रः 'कंसि देसंसि' कस्मिन् देशे 'जोएई' युनक्ति-परिसमापयति ? इति गौतमेन पृष्टे भगवानाह-'ता जंबुढीवस्त गं' इत्यादि, 'ता' तावत् 'जवुद्दीवस्स णं दीवस्स' जम्बूद्वीपस्य खल द्वीपस्योपरि 'पाईणपडीणाययाए' प्राचीप्रतीच्यायतया, अत्र प्राची ग्रहणेन उत्तरपूर्वा गृह्यते प्रतीची ग्रहणेन दक्षिणापरा गृह्यते तेनायमर्थः-पूर्वोत्तरदक्षिणापरायतया, 'इति एवम् 'उदीणदाहिणाययाए' उदीची दक्षिणायतया, उदीची शब्देनापरोत्तरायतया, दक्षिण शब्देन पूर्वदक्षिणायतया च, अयं भाव -एका जीवा उत्तरतो निस्सृत्य पूर्वायां प्रविष्टा १, द्वितीया दक्षिणतो निस्सृत्य प्रतीच्यां प्रविष्टा २, तृतीया प्रतीचीनो निस्सृत्योत्तरस्यां प्रविष्टा ३, चतुर्थी पूर्वातो निस्सृत्य दक्षिणस्यां प्रविष्टा ४. इत्येवंरूपया जीवाए' जीवया प्रत्यञ्चा सशत्वा त्प्रत्यञ्चया दवरिकयेत्यर्थः 'मंडल मण्डलं' 'चउव्वीसेणं सएणं चतुर्वित्यधिकेन शतेन 'छित्ता' छित्वा विभज्य भूयश्चतुर्भिविभज्यते, ततः 'दाहिणिल्लंसि' दक्षिणात्ये 'चउभागमंडलंसि' चतुर्भागमण्डले एकत्रिंशद्भागप्रमाणे 'सत्तावीसं चउभागे' सप्तविं-. शतिं चतुर्भागान् 'उवाइणाचित्ता' उपादाय 'अट्ठावीसइभागं' अष्टाविशतितमं भागं 'वीसहा छेत्ता' विंशतिधा छित्वा तग्दतान् 'अद्वारसभागे' अष्टादशभागान् 'उवाइणावित्ता' उपादाय शेपैः 'तिहि भागेहिं त्रिभि गैः, चतुर्थस्य भागरय च दोहियकलाहि' द्वाभ्यां च कलाभ्यां 'पच्चस्थिमिल्लं' पाश्चात्य 'चउभागमंडलं' चतुर्भागमण्डलम् 'असंपत्ते' असम्प्राप्तः, 'एत्थ णं' अत्र खलु अस्मिन प्रदेशे 'चंदे' चन्द्रः 'चरिमं' चरमा सन्तिमा 'वावर्टि' द्वाषष्टिं द्वाषष्टितमां 'पुण्णमासिणि' पौर्णमासी 'जोएइ युनक्ति--परिसमापयतीति । सूत्र ॥४॥
पूर्व चन्द्रस्य पौर्णमासी परिसमाप्तिदेशः प्रोक्तः, साम्प्रतं सूर्यस्य पौर्णमासी परिसमाप्तिदेश प्रतिपादयन् तद्विपयकं सूत्रमाह-'ता एएसिणं' इत्यादि ।