________________
चन्द्रप्रनप्तिसूत्रे च 'पविसिय २' प्रविश्य २ चन्द्रमण्डले समाविश्य २ 'चंदेण सद्धि जोयं जोएइ' चन्द्रेण सार्द्ध योग युनक्ति ? । एवं गौतमेन प्रश्न कृते भगवानाह-'ता एएसिणं' इत्यादि, 'ता' तावत् श्रूयताम्-'एएसिणं छप्पण्णाए णखत्ताणं' एतेषां खलु पटू पञ्चाशतो नक्षत्राणां मध्ये 'न किंपि त' न किमपि तन्नक्षत्रं 'ज' यत् नक्षत्रं 'सया' सदा निरन्तरं प्रतिदिनमित्यर्थः 'पाओ' प्रातः प्रभातसमये सूर्योदयवलायां 'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण साधू योगं युनक्ति, तथा 'नो' न किमपि तन्नक्षत्रं यत् 'सया' सदा 'सायं' सायं सन्ध्याकाले सूर्यास्तसमये 'चंदेण सद्धिं जोयं जोएई' चन्द्रेण साधं योगं युनक्ति । तथा 'नो' न किमपि तन्नक्षत्रं यत् 'सया' सदा 'दुहओ' द्विधान प्रातः सायं वा 'पविसिय २' प्रविश्य २ चन्द्रमण्डले समाविश्य २ 'चंदेण सद्धि जोय जोएइ चन्द्रेण साध योगं युनक्ति । किं सर्वथा न किमपि नक्षत्र सदा प्रातरादिसमये चन्द्रेण सह योगं युनक्ति ? नैवम्, तत आह-'नन्नत्थ' नान्यत्र 'दोहिं अभिई हि' द्वाभ्यामभिजिद्याम् , द्वौ अभिजितौ मुक्त्वाऽन्यत् किमपि नक्षत्र सदा प्रातरादि समये चन्द्रेण सह योग न युनक्तीति भाव । तत्रापि 'ता' तावत् 'एतेणं' एते खल 'दो अभिई' द्वौ अभिजिती मपि युगेयुगे 'पायचिय २' प्रातरेव प्रातरेव चोत्तालीसं २' चतुश्चत्वारिंशां २ चतुश्चत्वारिंशतमां चतुश्चत्वारिंशत्तमा 'अमावासं अमावास्यामेव चन्द्रेण सह योगं 'जोएंति' युक्तः कुरुतः, चतुश्चत्वारिंशत्तमाममावास्यामेव परिसमापयत इति भावः, किन्तु 'नो चेव णं' नैव खल 'पुण्णमासिणि' पौर्णमासीम्, परिसमापयत इति । ___अथ कथमेतद् ज्ञायते यत् प्रति युगमभिजिन्नक्षत्र सदैव प्रातः काले चतुश्चत्वारिंशत्तमांचतुश्चत्वारिंशत्तमाममावास्यां चन्द्रेण सह योगं युक्त्वा परिसमापयतीति । तत्राह-पूर्वाचार्योपदर्शितकरणवशात ज्ञायते, तदेवाह-प्रथमं तिथ्यानयनाथ करणगाथेयम्
"तिहिरासिमेव बवहिभाइया सेसमेगसद्विगुणणं च । पावट्टीए विभत्तं, सेसा अंसा तिहि समत्ती ॥१॥ छाया-तिथि रागिरव द्वापष्टिभाजितः शेपमेकपष्टि गुणनं च ।
द्वापरया विमक, शेपा अंशा तिथि समाप्तिः ॥१॥ इति अस्याः संक्षेपार्थ. -'तिहिरासिमेव' तिथिराशि रेवेति युगमध्ये ये चन्द्रमासा अतिक्रान्तास्ते तिथिराम्यानयनाथै त्रिंगता गुण्यन्ते, गुणिते यस्तिथिराशिर्जातः स एवेत्यर्थः 'वावद्विभाटया' द्वापप्टिभाजित , तस्य तिथि राशपष्टया भागो हियते, हृते च भागे 'सेस' यदवशिष्टं तस्य 'एगसट्टिगुणणं' एकपष्टिगुणनम् एकपष्टया गुणकार• क्रियते गुणकारं कृत्वा 'वात्रडीएविभत्त' द्वापष्टया विमक्तं द्वापष्टया भागो हरणोय , हृते च भागे ये 'सेसा अंसा' शेपा मंत्रा, ये अंशा उद्धन्ति तत्परिमिता सा विवझिने दिने 'तिहिसमती' तिथिसमाप्तिः विवक्षिततिथिसमाप्तिरवसेयेनि करणगाथार्थः ॥१॥