________________
४२६
चन्द्रप्रज्ञप्तिसूत्रे 'ता एएसिणं' इत्यादि । इहाप्टाविंशत्या नक्षत्रै स्वगत्या स्व स्व कालपरिमाणेन क्रमशो यावत्परिमितं क्षेत्रं बुद्ध या व्याप्यमानं सम्भाव्यते तावत्परिमितमेकमर्द्धमण्डलमुपकल्प्यते, एतावत्प्रमाणमेव द्वितीयमर्द्धमण्डलमित्येवं प्रमाणं वुद्धिपरिकल्पितमेकं परिपूर्णमण्डलं कल्प्यते, तस्य मण्डलस्य
मंडलं सयसहस्सेण अट्ठाणउएहिं सएहिं छित्ता इच्चेसनक्खत्ते खेत्तपरिभागेनक्खत्तविचए पाहुढे आहिएत्तिवेमि"
छाया-मण्डलशतसहस्रेण अष्टानवतिभिः शतै छित्त्वा इत्येष नाक्षत्रः क्षेत्रपरिभागः नक्षत्रविचये प्रामृते आख्यात इति ब्रवीमि-इति । इति वाक्ष्यमाणवचनात अष्टानवतिशत सहस्रविभागैर्विभज्यते । किमेवंविधसख्यकभागानां कल्पने प्रमाणम् ? इति चेदाह-इह नक्षत्राणि त्रिविधानि भवन्ति तथाहि-समक्षेत्राणि, अर्थक्षेत्राणि, द्वयर्धक्षेत्राणि च, तत्र समक्षेत्राणि त्रिंशन्मुहूर्तानि, अर्धक्षेत्राणि पञ्चदशमुहर्तानि, द्वयर्धक्षेत्राणि पञ्चचत्वारिंशन्मुहूर्तानीति । अयं भावः यावत्प्रमाणं क्षेत्रं यैनक्षत्ररेकेनाहोरात्रेण गम्यते तावत्क्षेत्रप्रमाणं योगं यानि नक्षत्राणि चन्द्रेण सह युञ्जन्ति तानि नक्षत्राणि समक्षेत्राणि कथ्यन्ते, तानि च पञ्चदश, नथाहि-श्रवणः १, धनिष्ठा २, पूर्वाभाद्रपदा ३, रेवती ४, अश्विनी ५, कृत्तिका ६, मृगशिरः ७, पुप्यः ८, मघा ९, पूर्वाफाल्गुनी १०, हस्तः ११, चित्रा १२, अनुराधा १३, मूलः १४, पूर्वापाढ़ा १५, इति । तथा यानि नक्षत्राणि अहोरात्रप्रमितस्यत्रिंशन्मुहूर्त्तात्मकस्याई पञ्चदशमुहूर्तात्मकं क्षेत्रं चन्द्रेण सह योग युञ्जन्ति तानि अर्द्धक्षेत्राणि प्रोच्यन्ते, तानि च पट्-तथाहि-शतभिपक् १, भरणी २, आर्द्रा ३, अश्लेषा ४, स्वातिः ५, ज्येष्ठा ६, चेति । तथा द्वितीयम यस्य तद् द्वयर्धेसार्धमेकमित्यर्थः, तद् द्वयर्धमर्दाधिक क्षेत्रमहोरात्रप्रमितं पश्चचत्वारिंशन्मुहूर्तात्मकं चन्द्रयोगयोग्यं येषां तानि द्वयर्धक्षेत्राणि, एतान्यपि षट् तथाहि-उत्तराभाद्रपदा १, उत्तराफाल्गुनी २, उत्तराषाढ़ा ३, रोहिणी ४, पुनर्वसुः ५, विशाखा ६ चेति । अथ सीमापरिमाणं चिन्त्यते, तत्राहोरात्रः सप्तपष्टि भागी क्रियते, पूर्णाहोरात्रं च चन्द्रयोगयोग्यं येषां नक्षत्राणां भवति तानि नक्षत्राणि समक्षेत्राणि, तेषां समक्षेत्राणां क्षेत्रं प्रत्येक सप्तषष्टि भागाः परिकल्प्यन्ते इति समक्षेत्रस्य नक्षत्रस्य सप्तपष्टिभागाः (६७), अर्धक्षेत्रस्य सार्धास्त्रयविंशभागाः (३३॥) द्वयर्थक्षेत्रस्यैकं शतमर्द्व च (१००॥) अभिजिन्नक्षत्रस्य एकविंशतिसप्तपष्टिभागः ( २१ ) भवन्ति, अभिजितः सप्तविंशतिसप्तपष्टिभागयुक्तनवमुहूर्त्तान् यावत् चन्द्रयोगयोग्यत्वात् , एते च सप्तपष्टिभागाः त्रिंशन्मुहुर्तात्मकपूर्णाहोरात्रस्य परिकल्तिाः सन्तीति रीत्याऽभिजित एकविंशतिः सप्तपष्टिभागा लभ्यन्ते इति विवेकः । समक्षेत्राणि नक्षत्राणि च पञ्चदशेति सप्तपष्टिभागाः पञ्चदशमिर्गुण्यन्ते, जातं पञ्चोत्तरमेक सहस्रम् (१०५) । अर्धक्षेत्राणि पडिति सार्धास्त्रयस्त्रिंशत् (३३॥) भागा पड्भिर्गुण्यन्ने, जाते एकोत्तरे द्वे गते (२०१)।यक्षेत्राणि पट् ततः सार्धशतमेकं (१००)