________________
। चन्द्राप्तिप्रकाशिका टीका प्रा.१० प्रा०मा.२० सू.. प्रमाणसंवत्सरनिरूपणम् ४११....
) पूर्वोक्तरूपा गताः, शेषस्तिष्ठत्येको भागः, एकस्य भागस्य च. सत्काः षोडशत्रिंशद्भागाः-( १-१६ )। अस्य त्रयोविंशतिद्वषिष्टभागाः (. २३ ) कथं भवन्तीत्याह-अस्यैः . कस्य भागस्य, षोडशानां त्रिंशद्भागानां च सर्वे षट् चत्वारिंशत् त्रिंशद्भागा जाताः, एते च किल एकस्य मुहूर्तस्य चतुर्विशत्युत्तरशतभागसम्बन्धिनः सन्ति, ततः षट्चत्वारिशतः ( ४६), चतुर्विशत्युत्तरशतस्य ( १२४) च द्विकेनापवर्तना क्रियते, लब्धा एकस्य मुहूर्तस्य त्रयोविंशति षिष्टिभागाः (२३) । तदेव मेकस्मिन् युगेऽभिवद्धि तसंवत्सरमासाः-सप्तपञ्चाशन्मासाः सप्ताहोरात्राः
६२
एकादश मुहूर्ताः, एकस्य च मुहूर्तस्य त्रयोविंशतिषिष्टिभागाः ( मा० अहो. मु० भागा) एता
( ५७-७- ११ २३) एताव
त्परिमिता भवन्तीतिसिद्धम् । उक्तं चान्यत्रापि---
"तत्थ पडिमिज्जमाणे, पंचहि माणेहिं पुन्वगणिएहिं । मासेहि विभज्जंता, जइ मासा होति तेवोच्छ ॥१॥
अत्र 'तत्थ' इति तत्र 'पचहि माणेहि' इति पञ्चभिर्मानैः-मान संवत्सरैः प्रमाण संवत्सरै-' रादित्यचन्द्रादिभिरित्यर्थः, 'पुन्चगणिएहिं' पूर्वगणितैः-प्राक् प्रतिसख्यातस्वरूपै । 'पडिमिज्ज- । माणे' प्रतिमीयमाने-प्रतिगण्यमाने 'मासेहि': मासैः-सूर्यादिमासैः । शेष सुगममिति ॥१॥
उक्तञ्च-युगसम्बन्धि पञ्चसंवत्सरमासविषये-- "आइच्चेण उ सट्ठी, मासा उउणो उ होंति एगदठी। चंदेण उ वा-चट्ठी, सत्तट्ठी होंति नक्खत्ते ॥ १॥ सत्तावण मासा सत्तय राइंदियाई अभिवड्ढे । इक्कारस य मुहुत्ता विसट्टि भागा य तेवीसं ॥२॥
छाया-आदित्येन तु ( विभज्यमानाः ) षष्टिर्मासाः ६० ( युगे ) ऋतोस्तु ( मासाः ) भवन्ति एकषष्टिः । ६१।
चन्द्रेण तु (विभज्यमाना मासाः) द्वाषष्टिः ६२ सप्तषष्टिर्भवन्ति नक्षत्रे ॥१॥ सप्तपञ्चाशद् मासाः ५७ सप्त च रात्रिन्दिवानि, अभिवर्द्धिते । एकादश च मूहूर्ताः ११ द्विषष्टिभागाश्च त्रयोविंशतिः ( २ ॥२॥ इति सू० ॥
५