________________
४१०
' चन्द्रप्राप्तिसूत्रे
' एको लक्षः, द्वाविंशतिः सहस्राणि, दशोत्तराणि पट् शतानि च (१२२६१०) । एतेषां त्रिंशदधिकैरष्टादशशतनक्षत्रमाससम्बन्धि सप्तपष्टिभागरूपै भागो हरणीयः, हृते च भागे लब्धाः सप्तपष्टिमासाः (६७) एवमेकस्मिन् युगे नक्षत्रसंवत्सरस्य ,सप्तपष्टिर्मासा भवन्तीति सिद्धम् ४ ।
तथा यदि अभिवतिसंवत्सरमासैर्युगं विभज्यते-तत्रैकस्मिन् युगेऽभिवर्द्धितमासाः सप्तपञ्चाशत् (५०) सप्ताहोरात्राः, एकादशमुहूर्ताः, एकस्य च मुहूर्तस्य त्रयोविंशति षिष्टिमागाः ( मा. अहो. मु. भागाः ) इत्येतदभिवर्धितमासंप्रमाणं भवति । कथमेतदवसीयते ? इत्याह
५७-७-११-२२ ) अभिवर्द्धितमासस्य परिमाणम् एकत्रिंशदहोरात्राः; एकस्य चाहोरात्राः एकस्य चाहोरात्रस्य एकविंशत्युत्तरशतं चतुर्विशत्युत्तरशतभागाः (३१-१२१ ) तत्र एकत्रिंशदहो रात्राश्चतुविंशत्युत्तरशतभागकरणार्थ चतुर्वि शत्युत्तरशतेन गुण्यन्ते, जातानि चतुश्चत्वारिंशदधिकानि अष्टत्रिंशच्छतानि (३८४४) तत उपरितनमेकविंशत्युत्तरं शतमत्र प्रक्षिप्यते, जातानि-पञ्चषटयधिकानि एकोनचत्वारिंगच्छतानि(३९६५)। ये च पूर्वोक्तास्त्रिंशदधिकाष्टादशशतसंख्यका युगस्याहोरात्राः (१८३०) ते चतुर्विशत्युत्तरेण शतेन गुण्यन्ते, जातो राशिः-द्वे लक्षे षड्विंशतिः सहस्राणि, नवशतानि, विंशत्यधिकानि च (२२६९२०) इत्येतत्परिमितः । तत एषामेकोन चत्वारिंशच्छतैः पञ्चषष्टयधिकैरभिवर्द्धितमाससम्बन्धि । चतुर्विशत्यधिकशतभागरूपै र्भागो हियते लब्धाः सप्तपञ्चाशन्मासाः तिष्ठन्ति शेषाणि पञ्चदशोतराणि नवशतानि ( ९१५) तेषामहोरात्रानयनाथ चतुर्विशत्यधिकशतेन भागो हियते, लब्धाः सप्ताहोरात्राः, तिष्ठन्ति शेषाः- सप्तचत्वारिंशत् चतुर्विंशत्युत्तरशतभागाः। तत्र चतुर्भािगः, एकस्य च भागस्य चतुर्भिस्त्रिंशद्भागः ('४-:.) एको मुहूर्तो भवति, तथाहि-एकस्मिन्नहोरात्रे त्रिंशन्मुहूर्ता भवन्ति, एकस्मिन्नहोरात्रे च चतुर्वि शत्युत्तरमेकं शतं (१२४) भागानां कल्प्यते, ततस्तस्य चतुर्विगत्युत्तरशतस्य त्रिंशता भागो हियत, लब्धाश्चत्वारो भागाः, शेपा एकस्य च भागस्य-सम्बन्धिनश्चत्वारस्त्रिंशद् भागाः (४-:-) एतद् एकस्य मुहूर्त्तस्य परिमाणं जातम् । ततः पञ्चचत्वारिंशद्भागै', एकस्य भागस्य सत्कैश्चतु दशमिस्त्रिशद्गागः ( ४५-११ )एकादशमुहूर्त्ता लब्धाः कथमित्याह-पूर्व सप्तरात्रिन्दिवलाभानन्तरं स्थिता. सप्तचत्वारिंशत् चतुर्वि प्रत्युत्तरशत भागाः । (१७.) एतेभ्य एकादशमुहूर्ताः
.३०