SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा. १० प्रा प्रा. २० सू ३ द्वितीययुगसंवत्सर निरूपणम् ३९३ मुहूर्त्ताः, अष्टत्रिंशच्च द्वाषष्टिभागाः मुहूर्त्तस्य, द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा द्वात्रिशत् चूर्णिकाः भागाः शेषाः । २८- ३८ - ३२ पूर्वाफाल्गुनीनक्षत्रस्य समक्षेत्रत्वेन त्रिंशन्मुहूर्त्तात्मकत्वात् भुक्तशेषयोर्द्वयोः संमेलने जायन्ते पूर्वाफाल्गुनी नक्षत्रस्य परिपूर्णास्त्रिशन्मुहूर्त्ताः (३०) इति । तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तदा त्रिभिः कति सूर्यनक्षत्रपर्याया लभ्यन्ते । अत्रापि राशित्रयस्थापना - । १२४|५|३ | अत्राप्यन्त्येन राशिना त्रिकरूपेण मध्यः पञ्चकरूपो राशिर्गुण्यते जाताः पञ्चदश (१५) तेषामाद्येन चतुर्विंशत्यधिकशत (१२४) रूपेण राशिना भागहरणं प्राप्यते, भाज्यराशं स्तोकत्वाद् भागो न हियते ततो नक्षत्रानयनार्थमष्टादशभिः शतै खिशदधिकैः (१८३०) सप्तषष्टिभागै गुणयिष्याम इति गुणकारच्छेदराश्योरर्द्धेनापवर्त्तना क्रियते, जातो गुणकारराशिः पञ्चदशोत्तराणि नव शतानि (९१५) छेदराशिर्द्वाषष्टिः (६२) । तत्र पञ्चदशोत्तरनवशतैः पञ्चदश गुण्यन्ते, जातानि पञ्चविंशत्यधिकसप्तशतोतराणि त्रयोदश सहस्राणि (१३७२५), एभ्यः अष्टाविंशत्यधिकानि सप्तविंशतिशतानि (२७ २८) पुष्यनक्षत्रसम्बन्धीनि शोध्यन्ते, स्थितानि पश्चात् सप्तनवत्यधिक नवशतोत्तराणि दश सहस्राणि(१०९९७), छेदराशि य द्वाषष्टिरूपः स सप्तषष्ट्या गुण्यते जातानि चतुष्पञ्चाशदधिकानि एकचत्वारिंशच्छतानि (४१५४), एतैर्भागो हियते, लब्धे द्वे नक्षत्रे, ते चाश्लेपा मघारूपे, तत्राश्लेषा नक्षत्रमपार्द्धक्षेत्रं पञ्चदशमुहूर्त्तात्मकमित्येतद्गताः पञ्चदशसूर्यमुहूर्त्ता उद्धरिता ज्ञातव्याः, इतश्च पूर्वं भागे हृते यानि स्थितानि शेषाणि नवाशीत्यदिकानि षड्विंशतिशतानि (२६८९ ), तानि मुहूर्त्ता - नयनार्थं त्रिंशता गुण्यन्ते, जातानि अशीति सहस्राणि सप्तत्यधिकानि षड्शतानि (८०६७०), एषां छेदराशिना चतुष्पञ्चाशदधिकैक चत्वारिंगच्छत रूपेण (४१५४) भागो हियते, लव्धा एकोनविंशतिर्मुहूर्त्ताः (१९), शेषाणि तिष्ठन्ति चतुश्चत्वारिंशदधिकानि सप्तदशशतानि ( १७४४), एतानि द्वाषष्टि भागानयनार्थं द्वाषष्ट्या गुणनीयानीति गुणकार - च्छेदराश्यो द्वषिष्टयाऽपवर्त्तना क्रियते, जातो गुणकार राशिरेकरूपः (१), छेदराशिः सप्तषष्टिरूपः (६७) तत्रो परितनो यो राशिचतुश्चत्वारिंशदधिकसप्तदश शतरूपः (१७४४), स एकेन गुणितस्तावानेव १७४४) अस्य सप्तषष्टया भागो ह्रियते, लब्धा षडूविंशति र्द्वा पष्टिभागाः स्थितौ शेषौ द्वौ तौ च एकस्य द्वाषष्टि भागस्य द्वौ सप्तषष्टि भागौ- २६ - ) तत्र पूर्वं ये लब्धा एकोनविशतिमुहूर्त्ताः (१९) ये चाश्लेषा नक्षत्रसत्काः पञ्चदश सूर्यमुहूर्त्ता उद्धरिताः, एतद्द्वयमपि एकत्र मील्यते जाताश्चतुस्त्रिंशन्मुहूर्त्ताः (३४) अत्र त्रिंशता पूर्व फाल्गुनी शुद्धा, शेषाः स्थिता श्चत्वारो मुहूर्त्ता (४) तत आगतम् - उत्तराफाल्गुनी नक्षत्रसम्बन्धिनां चतुर्णां मुहूर्त्तानाम्, एकस्य च मुहूर्त्तस्य षड्विशति र्द्वा षष्टिभागानाम् एकस्य च २६ २) भोगं कृत्वा सूर्यः भाद्रपदमासगतामावास्या द्वाषष्टि भागस्य द्वयोः सप्तषष्टि भागयो : ( ४ - ) ६२६७
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy