________________
चन्द्राप्तिप्रकाशिका टीका प्रा १० प्रा. प्रा. २० सू. ३ द्वितीययुगसंवत्सरनिरूपणम् ३८९ जाता भूयोऽपि षष्टिरेवेति समागतं यत्-चतुर्थं पर्व सर्वाभ्यन्तरमण्डलमादि कृत्वा पष्टितमे मण्डले समाप्तिमुपगच्छतीति ।।
एवं पञ्चविंशतितमपर्वविपये प्रश्ने पञ्चविंशतिधियते, सा पञ्चदशभिर्गुण्यते जातानि पञ्चसप्तत्यधिकानि त्रीणि शतानि (३७५) । अत्र पड् अवमरात्रा जायन्ते इति पूर्वोक्तराशेः (३७५) पशोध्यन्ते, तिष्ठन्ति शेषाणि एकोनसप्तत्यधिकानि त्रीणि शतानि (३६९) एषां त्र्यशीत्यधिकशतेन (१८३) भागो हियते लब्धौ द्वौ (२) पश्चात्तिष्ठन्ति त्रीणि, तानि रूपयुक्तानि क्रियन्ते जातानि चत्वारि, यौ च द्वौ लब्धाङ्कौ, तेन द्वे अयने दक्षिणायनोत्तरायणरूपे शुद्धे, तत आयातं-तृतीये दक्षिणायनरूपेऽयने सर्वाभ्यन्तरमण्डलमादि कृत्वा चतुर्थे मण्डले पञ्चविंशतितमं पर्व समाप्तं भवतीति ।२५/ ___अथ चतुर्विशत्यधिकशततमपर्वविषय. प्रभो भवेत्तदा चतुर्वि शल्यधिकशसंख्यको राशिः (१२४) स्थाप्यते, एपोऽपि पूर्ववत् पञ्चदशभिर्गुण्यते, जातानि-पष्टयधिकानि अष्टादशशतानि (१८६०) चतुर्विंशत्यधिक पर्वशते च अवमरात्रास्त्रिंशजाता. (३०) इति त्रिशत्पात्यते, जातानि त्रिंशदधिकानि अष्टादशशतानि (१८३०), एतेपु रूपयुक्तेपु कृतेपु जातानि-एकत्रिंशदधिकानि अष्टादशशतानि (१८३१) एपां त्र्यशीत्यधिकशतेन (१८३) भागो हियते लब्धानि दशायनानि, शेषोऽवतिष्ठते एकः (१) दशमं चायनं युगपर्यन्तभागे उत्तरायणम्, ततः संप्राप्तम्-उत्तरायणपर्यन्ते सर्वाभ्यन्तरे मण्डले चतुर्विंशत्यधिकशततमं (१२४) पर्वसमाप्ति प्राप्तमिति (१२४)।
गतं पर्वसमापकसूर्यमण्डलप्रकरणम्, साम्प्रतं पर्वसमापक सूर्यनक्षत्रप्रकरणं प्रस्तूयते, तत्र, पूर्व तत्प्रदर्शिकास्तिस्रः करेणगार्थाः प्रदयन्ते
"चउवीससयं काऊण पमाण पज्ज य पंच फलं । इच्छापव्वेहिं गुणं काऊणं पज्जया लद्धा ॥१॥ अट्ठारस य सएहिं, सेसगंमि गुणियम्मि । सत्तावीससएसुं, अट्ठावीसेसु पूसम्मि । सत्तट्ट विसट्ठीणं सव्वग्गेण तओ उजं सेसं ।
तंरिक्खं सूरस्स उ, जत्थ समत्तं हवइ पव्वं ॥३॥ 'एतासां तिसृणां करणगाथानां क्रमशो व्याख्या क्रियते-चउवीससयं काऊण पमाणं' चतुर्विंशतिशतं चतुर्विशतिशतप्रमितं प्रमाणं प्रमाणराशि कृत्वा 'पज्जए य पंच' पञ्च पर्यायान् 'फलं' फलं कुर्यात् । ततः 'इच्छापव्वेहिं गुणं काऊण' इच्छापर्वभिः ईप्सितपर्वराशिना गुणं-गुणकारं कृत्वा तत आयेन राशिना चतुर्विशत्यधिकशतरूपेण भागे हृते ये लब्धास्ते 'पज्जाया लद्धा' पर्याया लब्धा इति विज्ञेयम् । ते च शुद्धा ज्ञातव्याः ॥१॥ -