________________
૨૮૮
चन्द्रप्राप्तिसूत्रे अथ सूर्य मण्डलान्याश्रित्य पर्व समाप्तिर्विचार्यते, यथा--कस्मिन सूर्यमण्डले किं पर्वसमा प्तिमेतीति, अत्रापि करणगाथामाह
"सूरस्स वि नायचो, सगेण अयरेण मंडलविभागो।
'अयणम्मि उ जे दिवसा, रूबहिए मंडले हवइ ॥१॥ छाया--सूरस्यापि ज्ञातव्यः, स्वकेन अयनेन मण्डलविभागः ।
अयने तु ये दिवसाः रूपाधिके मण्डले भवति ॥१॥ इति अस्य व्याख्या-'सरस्सवि' सूर्यस्यापि 'मंडलविभागे' पर्वविपयो मण्डलविभागः 'नायव्यो' ज्ञातव्यः, कथम् ? 'सगेण अयणेण' स्वकेन अयनेन, सूर्यसम्बन्धिनाऽयतेन ज्ञातव्य इति । अयं भावः-सूर्यस्य स्वकीयमयनमपेक्ष्य तस्मिन् तस्मिन् मण्डले तस्य तस्य पर्वणः समाप्तिरवधायनि । तत्र 'अयणम्मि' अयने तु शोधिते सति 'जे दिवसा', ये दिवसाः शेपा उद्धरिताः अयनशोधनानन्तरं येऽवशिष्टा दिवसा स्तिष्ठन्ति तत्संख्यके 'रूवाहिए मंडले' रूपाधिके-एककरूपसहिते मण्डले 'हवइ' भवति तदीप्सितं पूर्व समाप्तं भवतीति विज्ञातव्यम् ॥ एप करणगाथासंक्षेपार्थ. ॥१॥ विस्तरार्थस्तु भावनया वेदितव्यः, सा चेत्थम्-इह यत्-अमुकं पर्व कस्मिन् मण्डले समातं भवतीति ज्ञातुमिच्छेत् तदा ईप्सितपर्वसंख्या स्थाप्यते सा च पञ्चदशभिगुणयेन् गुणिता सा संख्या एकरूपाधिका कर्तव्या, ततः तद्राशिनः संभव तोऽवमरात्रा पात्यन्ते, ततो यदि सा संख्या त्र्यशीत्यधिकशतेन भागहरणीया भवेत् तर्हि तस्यास्यशीत्यधिकशतेन भागो हियते, हते च भागे यानि लब्धानि तान्ययनानि ज्ञातव्यानि, भागावशिष्टा या दिवस संख्याऽवतिष्ठते तस्या अन्तिमे मण्डले यद् विवक्षितं तत् पर्व समाप्तं भवतीत्यवधारणीयम् । तत्र यदि उत्तरायणं वर्त्तते तदा सर्वबाह्य मण्डलमादित्येन कर्तव्यम्, उत्तरायणे सर्ववाह्य मण्डलमादिर्भवतीति भावः, यदि दक्षिणायनं वर्त्तते तदा सर्वाभ्यन्तरं मण्ड छमादित्वेन विज्ञेयम्, दक्षिणायने सर्वाभ्यन्तरं मण्डलमादिर्भवतीति भावः । इति पर्वसमाप्त्यानयनप्रकारः प्रदर्शितः, अथ तदेव सोदाहरणं परिभाव्यते तथाहि
__ यथा कोऽपि पृच्छेत्-युगे प्रथमं पर्व सूर्यस्य कस्मिन् मण्डले समाप्तं भवतीति । अत्र प्रथम पर्वविषयक प्रश्न-इति-एफक. (१) स्थाप्यते, स पञ्चदशभिर्गुण्यते जाताः पञ्चदश (१५) अत्रैकोऽप्यवमरात्रो न संभवतीति न किमपि पात्यते, स्थिताः पञ्चदशैव (१५) ते च पञ्चदशरूपाधिकाः क्रियन्ते जाता. पोडश १६ युगादौ च प्रथमं पर्व दक्षिणायने भवतीत्यत आगतम्-युगे प्रथम मण्डल सर्वाभ्यन्तरमण्ड उमादि कृत्वा पोडशे मण्डले समाप्तं जातमिति ॥१॥
___ अथ कोऽपि पृच्छेत्-चतुर्थ पर्व कस्मिन् मण्डले परिसमाप्तिमेतीति । तत्र चतुर्थपर्वविषयकः प्रश्नः कृत इति चतुष्काऽङ्गः स्थाप्यते (१) सच पञ्चदशभिर्गुण्यते जाता पष्टिः, ६० अत्रैकोऽवमरात्रः सभवतीत्येकोऽस्माद्गशः पात्यते जाता एकोनपष्टि ५९ सा पुनरेकरूपयुक्ता क्रियते