________________
wwmmmmmmmmmarrrrrrrrrrrrrrrrrrrr. amar
चन्द्रप्राप्तिसूत्रे अथ करणगाथानां भावमाश्रित्य गणितेन भावना क्रियते सा चेत्थम्-अत्र त्रैराशिकं यथा यदि चतुर्विशत्यधिकेन पर्वगतेन (१२४) सप्तपष्टिः (६७) पर्याया लभ्यन्ते तदा एकेन (१) पर्वणा किं लभ्यते ? राशित्रयस्थापना । १२४।६७।१। अत्रायं नियमः अन्त्येन राशिना मध्यराशिं गुणयित्वा स आधराशिना विभाज्यः । एतन्नियमानुसारेण अन्त्येन. एककरूपेण राशिना मध्यराशिः सप्तपष्टिरूपो गुण्यते, 'एकेन गुणितं तदेव भवति' इति न्यायात् जाता सप्तपष्टिरेव (६७) अस्य आयेन चतुर्विशत्यधिकशतरूपेण (१२१) राशिना भागो हरणीयः, स च स्तोकत्वाद्गागो न हियते, तनो नक्षत्रानयनार्थम्-'अट्ठारसहि,सएहिं तीसेहिं गुणियम्मि' इति द्वितीयगाथोक्तवचनात् त्रिंशदधिकरण्टादशमि शतैः (१८३०) सप्तपष्टिभागरूपैः सप्तपष्टे गुणकारः कर्तव्यो भवेत् , नतोऽङ्गानामाधिक्येन भूयमानत्वादर्धेनाऽपर्तनां कृत्वा गुणयितव्या सप्तपष्टिः, ततोऽस्य गुणकारराशेः (१८३०) चतुर्विंशत्यधिकशत (१२४) रूपस्य छेद राशेश्चानापवर्तना कर्तव्या जातो गुणकारराशिः पञ्चदशोत्तराणि नवशतानि (९१५) छेदराशिश्च द्वापष्टि संख्यो (६२) जातः, अथ सप्तपष्टिः पञ्चदशोत्तरनवशर्ते गुण्यते जातानि-एकपष्टिः सहस्राणि, त्रीणि शतानि पञ्चोत्तराणि (६१३०५) एतस्मादभिजिन्नक्षत्रस्य द्वयुत्तराणि त्रयोदश शताणि (१३०२) शुद्धानि, स्थितानि शेपाणि त्र्युत्तराणि पष्टिसहस्राणि (६०००३), अपवर्तनालब्धो द्वापष्टिरूपः (६२) छेदराशिः सप्तपष्टया गुण्यते, जातानि चतुष्पञ्चाशदधिकानि एकचत्वारिंशच्छतानि (४१५४) तैर्भागो हियने लब्धाश्चतुर्दश (१४), तेन श्रवणादीनि पुष्य पर्यन्तानि चतुर्दशनक्षत्राणि शुद्वानि, यानि शेपाणि सप्तचत्वारिंशदधिकानि अष्टादशशतानि (१८४७) स्थितानि तानि मुहूर्त्तानयनाथ त्रिंगता गुणने जातानि-दशोत्तरचतुःशताधिकानि पञ्चपञ्चाशत्सहस्राणि (५५४१०), एपां पुनश्चतुप्पञ्चाशदधिकैकचत्वारिंशच्छतैः (४१ ५४) भागो ह्रियते लब्धास्त्रयोदश (१३) मुहर्ताः, भागे हते यानि अष्टोत्तराणि चतुर्दशशतानि (१४०८) शेपाणि तिष्ठन्ति । तानि द्वापष्टि भागानयनाथ द्वापष्टया गुणयितव्यानि भवन्ति, ततोऽधिकाकानां स्वल्पाककरणार्थ गुणकारच्छेदराश्यो घण्टयाऽपवर्तना क्रियते अपवर्त्तना अपर्कपः द्वाष्टया भागं हत्वा लब्धाङ्करूपः स्वल्पाको राशिः क्रियते इति भावः, एवं कृते गुणकारराशे पिष्टे पष्ट्या भागे हृते एककरूपो लब्धः, एवं चतुष्पञ्चाशदधिकैकचत्वा रिंशच्छतरूपस्य (४१५४) राशे पिष्टयाऽपवर्तिते भाग हृते इत्यर्थः छेदराशि सप्तपष्टिरूपो लब्धस्तेन गुणकार राशिरेककः (१) छेदराशिः सप्तपटिरूपो लब्धस्तेन गुणकार राशिरककः (१) छेदराशिः सप्तपष्टि (६७) जातः तत एककेन गुणकारराशिना गुणितः उपरितन. अष्टोत्तरचतुर्दशशत (१४०८) रूपो राशि र्जातस्तावानेव (१४०८) अस्यापवर्तित सप्तपष्टया भागो हियते, हृते च भागे लब्धा एकविंशतिः (२१) शेषस्तिष्टत्येकः, स च एकस्य द्वापप्ठिभागस्य एकः सप्तपष्टि भागोऽस्ति, तत आगतं यत् प्रथमं पर्व मालेपायास्त्रयोदश मुहर्त्तान् , एकस्य च मुहूर्तस्य एकविंशति