________________
चन्द्रज्ञप्तिप्रकाशिका टीका प्रा० १० प्रा. प्रा. २० सू०३ द्वितीययुगसंवत्सरनिरूपणम् ३८३
अथ कि पर्व कस्मिन् चन्द्रनक्षत्रयोगे समाप्ति मेतीति विचारणायां वृद्ध सम्प्रदायोक्तास्तिस्रः करणगाथाः प्रदश्यन्ते
"चउवीससयं काऊण पमाणं सत्तहिमेव फलं । इच्छापव्वे हि गुणं, काऊणं पज्जया लद्धा ॥१॥ अट्टारसहि सएहिं तीसेहिं सेसगम्मि गुणियम्मि । तेरस विउत्तरेहि, सएहिं अभिइम्मि सुद्धम्मि ॥२॥ सत्तद्विबिसट्ठीणं, सव्वग्गेणं तओ उजं सेसं ।
तं रिक्खं नायव्वं, जत्थ समत्थं हवइ पव्वं ॥३॥ छायाः-चतुर्विं शशतं कृत्वा प्रमाणं सप्तषष्टिमेव फलम् ।
इच्छापर्वभिर्गुणं कृत्वा पर्यायाः लब्धाः ॥१॥ अष्टादशभिः शतैः त्रिंशता (अधिकैः) शेपके गुणिते ।
त्रयोदशभिः द्वयुत्तरैः शतैः अभिजिति शुद्धे ॥२॥ .. सप्तषष्टि द्वाषष्टयोः सर्वाग्रेण ततस्तु यत् शेषम् ।
, तद् ऋक्षं ज्ञातव्यं, यत्र समाप्तं भवति पर्व ॥३॥इति ।। .. आसां भावमधिकृत्य संक्षेपतो व्याख्या क्रियते-त्रैराशिकविधौ ‘चउवीससयं पमाणं काऊण' चतुर्विशत्यधिकं शतं प्रमाणराशिं कृत्वा 'सत्तटिमेव फलं' सप्तपष्टि रूपं फलराशि कृत्वा 'इच्छापव्वेहिं' इच्छितपर्वभिः स्वेप्सितपर्वभिः यानि पर्वाणि ज्ञातुमिच्छेत् तैः 'गुणं काऊणं' गुणं गुणकारं कृत्वा विधाय आधेन चतुर्विंशत्यधिकशतरूपेण राशिना भागे हृतेऽङ्का लभ्यन्ते ते 'पज्जया लद्धा' पर्यायाः लब्धा इति ज्ञातव्यम् , ॥१॥ 'सेसगम्मि गुणियस्मि' यः पुनः शेषो राशिरवतिष्ठते तस्मिन् 'अट्ठारसहिं सएहिं तोसेहि' त्रिंशदधिकै रष्टादशभिः शतै गुणिते सति ततः 'तेरस विउत्तरेहि सएहि' द्वयुत्तरैस्त्रयोदशभिः गतेः 'अभिइम्मि सुद्धम्मि' अभिजिति शुद्धे, अयं भावः-अभिजित् शोधनीयः अभिजिन्नक्षत्रस्य भोग्यानामेकविंशतिसप्तषष्टिभागानां द्वाषष्ट्या गुणने एतावत एव (१३०२) शोधनकस्य लभ्यमानत्वात् , ततस्तस्मिन् शोधने ॥२॥ 'सत्तहि विसट्टिणं' सप्तषष्टि द्विषष्टीनां सप्तषष्टि संख्यका या द्विषष्ट्यस्तासां 'सव्वग्गेणं' सर्वाग्रेण 'तओ उजं सेसं ततस्तु यत् शेषम् , अयं भावः-सप्तपष्ट्या द्विपष्टौ गुणितायां यो राशिर्भवति तेन राशिना भागे हृते यद् लब्धं यो राशिर्लभ्यते तद्राशि प्रमाणानि नक्षत्राणि शुद्वानि, इति विज्ञेयम् , यत्पुनर्भागहरणात् शेषमवतिष्ठते 'तं रिक्खं नायव्वं तद् ऋक्षं-नक्षत्रं ज्ञातव्यं 'जत्थ समत्तं हवइ पव्वं' यत्र विवक्षितं पर्व समाप्तं भवति, तत् पर्व समाप्ति नक्षत्रं ज्ञातव्यमिति भावः ॥३॥ एषा करणगाथानां भावतो व्याख्या ॥