________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २० सू ३. द्वितीययुगसंवत्सरनिरूपणम् ३८५
द्वापष्टिभागान्, एकस्य च द्वापष्टिभागस्य एकसप्तपष्टिभागं--(१३---
६२/६७ पगतमिति । एवम्-अश्लेषानक्षत्रस्य एतावत्परिमित मुहूर्तादि प्रमाणे चन्द्रेण सह योगे समाप्ते सति प्रथमं पर्व समाप्तिमेतीति ज्ञातव्यम् १ । ___ अथ यदि चतुर्विंशत्यधिकेन पर्वशतेन (१२४) सप्तषष्टिः पर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां कियल्लभ्यते, एतदपि त्रैराशिकं गणितं जायते, तथाहि राशित्रयस्थापना- । १२४ । ६७ । २ । अत्रापि अन्त्येन राशिना मध्यमो राशिगुण्यते, जातं चतुस्त्रिंशदधिकं शतमेकम् (१३४), अस्य आयेन चतुर्विंशत्यधिकशतरूपेण रागिना भागो हियते, लब्ध एको नक्षत्रपर्यायः, शेषा स्थिताः दश, तत एते नक्षत्रानयनाथ त्रिंशदधिकैरष्टादशशतैः (१८३०) सप्तपष्टिभागै गुणयितव्या भवन्तीत्यत्रापि गुणाकारच्छेदराश्योरर्धेनापवर्तना कर्तव्या, तेन जातो गुणकारराशिः पञ्चादशोत्तराणि नवशतानि (९१५) छेदराशिश्च द्वापष्टि (६२) भवति । तत्र दशरूपो राशिः पञ्चादशोत्तरैवभिः शतैः (९१५) गुण्यते, जातानि पञ्चाशदधिकानि एक नवतिशतानि (९१५०)। एभ्यो द्वयुत्तराणि त्रयोदशशतानि (१३०२) अभिजिन्नक्षत्रस्य शोध्यानि, शोधिते च स्थितानि शेषाणि भटचत्वारिंशदधिकानि अष्टसप्ततिशतानि (७८४८) । तत्र द्वापष्टिरूपश्चेदराशिः सप्तपष्टया गुण्यते, जातानि चतुष्पश्चाशदधिकानि एकचत्वरिंशच्छतानि (४१५४) एतैर्भागो हियते, लब्धमेकं नक्षत्रं श्रवणरूपम्, शेषाणि यानि चतुर्नवत्यधिकानि पट् त्रिंशच्छतानि (३६९४) तिष्ठन्ति तानि मुहूर्तानयनाथ त्रिंशता गुण्यन्ते, जातम्-एक लक्ष, दशसहस्राणि, अष्टौ शतानि विंशत्युत्तराणि (११०८२०) पपां छेदराशिना भागो हियते, हूते च भागे लब्धाः षड्विंशतिर्मुहूर्ताः २६ , शेषाणि यानि पोडशोत्तराणि अष्टाविंशतिशतानि (२८१६) तिष्ठन्ति तानि द्वापष्टिभागानयनाथै द्वापष्टग गुणनीयानीति गुणकारछेदराश्यो पिष्टयाऽपवर्तना कर्त्तव्या, तेन जातो गुणकारराशिरेककरूपः (१) छेदराशिश्च सप्तपष्टिः । तत्रैकेन गुणित उपरितनो रागिः पोडशोत्तराष्टाविंशतिशतरूपो जातस्तावानेव (२८१६), अस्य सप्तषष्ट्या भागे हते लब्धा द्वाचत्वारिंशत् (४२) द्वापष्टिभागाः, शेषौ स्थितौ द्वौ तौ च एकस्य द्वाषष्टिभागस्य द्वौ सप्तपष्टिभागौ, तत आगतम् द्वितीयं पर्व धनिष्ठानक्षत्रस्य षड्विंशति मुहूर्तान् एकस्य च मुहूर्नस्य द्वि चत्वारिंशद् द्वापष्टिभागान् , एकस्य च द्वाषष्टिभागस्य द्वौ सप्तपष्टिभागौ (२६-8-) मुक्त्वा समाप्तिमुपयातीति । एवं धनिष्ठानक्षत्रस्य एतावत्परिमितमुहूर्त्तादि प्रमाणे चन्द्रेण सह योगे समाप्ते सति द्वितीयं पर्व परिसमाप्तिमुपगच्छतीति विज्ञातव्यम् । २ । ____एवं शेपेष्वपि, युगार्धम् द्विषष्टिपर्यन्तेषु पर्वसु सर्वाणि पर्वसमाप्ति नक्षत्राणि भावनीयानि । तत्समाहिकाश्चेमा पञ्च गाथा: