________________
चन्द्राप्तिप्रकाशिका टीका प्रा.१० प्रा०मा १५ दिवसतिथिरात्रितिथीनां नामानि ३५९ वक्ष्यति चामुमेवार्थ सूत्रकारोऽऽपि 'तत्थ णं जे से धुवराहू' इत्याद्यालापकेन । ततो यावत्परिमितेन कालेन पञ्चदशो भागः पष्टि भागसत्कचतुर्भागात्मको हानि वद्धिं वा प्राप्नोति स तावान् कालविशेषः कृष्णपक्षे शुक्लपक्षे वा तिथिरित्युच्यते । उक्तञ्च -
"सोलसभागा काऊण उडुवई हायएत्थ पण्णरस । तत्तियमित्ते भागे पुणोवि परिवड्ढए जोण्हे ॥१॥ कालेण जेण हायइ, सोलसभागो उसा तिही होइ । तह चेव य वुड्ढीए, एवं तिहिणो समुप्पत्ती ॥२॥" छाया-पोडशभागान् कृत्वा उडुपतेः हीयन्तेऽत्र पञ्चदश । तावन्मात्रान् भागान् पुनरपि परिवर्धयेत् ज्योत्स्ने (शुक्लपक्षे) ॥१॥ कालेन येन हीयते पोडशो भागस्तु सा तिथि भवति । तथैव च वृद्धया, एवं तिथेः समुत्पत्तिः ॥२॥ इति ।
तिथि विपये वृद्ध सम्प्रदायो यथा-अहोरात्रस्य द्वापष्टिभागकरणे ये एक पष्टिभागास्ताव त्प्रमाणा तिथिः । अथाहोरात्रस्त्रिशन्मुहुर्तप्रमाणो भवतीति प्रतीत एव किन्तु तिथिः कियन्मुहूर्तप्रमाणा भवतीत्यत्रोच्यते तिथिश्च परिपूर्णा एकोनत्रिंशन्मुहूर्ताः, एकस्य च मुहूर्तस्य द्वात्रिंशद् द्वा पष्टिभागाः (२९२) एतावत्प्रमाणा भवन्ति, उक्तञ्च
अउगतीसं पुण्णा, उ मुहुत्ता सोमओ तिही होइ । भागा वि य बत्तीसं, वावहिकाएण' छेएण" ॥१॥ छाया -- एकोनत्रिंशत् पूर्णास्तु मुहूर्ताः सा मतातिथिर्भवति । भागा अपि च द्वात्रिंशत् द्वापष्टिकृतेन छेदेन ॥१॥ इति ।
एतत्कथं भवतीति चेदाह-इह अहोरात्रस्य द्वाषष्टिर्भागाः क्रियन्ते, ततस्तत्सत्का ये एक षष्टि भागा स्तावत्प्रमाणा तिथिरिति कथ्यते, तत्रैकषष्टि स्त्रिशता गुण्यते जातानि त्रिंशत्यधिकानि अष्टादशशतानि (१८३०) । एते किल द्वाषष्टिभागीकृतस्याहोरात्रस्य मुहूर्तसत्का अंशाः जाताः, ततो मुहूर्तानयनार्थमेपां त्रिंशदधिकाष्टादशशतानां (१८३०) द्वाषष्ठ्या भागो हियते लब्धा एकोनत्रिंगन्मुहूर्ताः, तदुपरि एकस्य मुहूर्तस्य च द्वात्रिंशद् द्वाषष्टिभागाः २९ ३२एतावत्प्रमाणा तिथिर्भवति एतावतैर कालेन चन्द्रमण्डलगतः चतुर्भागात्मकः पूर्वप्रदर्शित
६२ प्रमाणः षोडशो भागो हानिमुपगच्छति वृद्धिं वा प्राप्नोति तत एतावानेव तिथेः परिमाणकालो भव