________________
३६०
चन्द्र प्रज्ञप्तिसूत्रे
एषा
तीति तदेवमेषोऽहोरात्रस्य तिथेश्च प्रतिविशेषो लब्धोऽत एव दिवसात् पृथक् तिथे प्रश्नः कृतइति । एवं गौतमेन तिथिविषये प्रश्ने कृते सति भगवानाह - ' तत्थ खलु' इत्यादि । 'तत्थ खलु' तत्र तिथिविषयविचारे खलु 'इमा' वन्यमाणाः 'तिहीओ' तिथिय: 'दुविहा' द्विविधा 'पण्णत्ता' प्रज्ञप्ताः कथिताः,' तं जहा ' तद्यथा - ता इमाः 'दिवस तिहीओ राईतिहीओ य' दिवसतिथयः रात्रि तिथयश्च । दिवस तिथिरिति तिथे: पूर्वार्धभागः, रात्रितिथि रिति तिथे. पश्चार्धभागइति । पुनगैंतम. पृच्छति - 'ता कहते दिवसतिहीओ' इत्यादि 'ता' तावत् 'क' कथं केन प्रकारेण 'ते' त्वया 'दिवस तिहीओ' दिवसतिथ्य' 'आहिया' आख्याता 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! एवं गौतमेन प्रश्ने कृते भगवानाह 'ता एगमेगस्स णं, तावत् ' एगमेगस्स णं' एकैकस्य खलु ' पक्खस्स' पक्षस्य ' पण्णरस' पञ्चदश पञ्चदश ' दिवस तिहीओ पण्णत्ताओ' दिवसतिथयः प्रज्ञप्ताः कथिताः । ' तं जहा ' तद्यथा - ता यथा 'गंदा' १, भद्दार जया ३ तुच्छा ४, पुण्णा५, नन्दा १ भद्रा २ जया३ तुच्छा ४ पूर्णा५ । तत्र प्रथमा प्रतिपदा तिथि नन्देति कथ्यते, एवं द्वितीयाभद्रा २, तृतीया जया, ३ चतुर्थी तुच्छा इयं लोके रिक्ता शब्देन प्रसिद्धा ४ पञ्चमी तिथि पूर्णा कथ्यते ५ । एषा पूर्णा 'पक्खस्स पंचमी' पक्षस्य पञ्चमी तिथि भवति ५ एवं 'पुणरवि' पुनरपि अग्रेतनाः पञ्च तिथय. - नन्दा इत्यादि नन्दा ६ भद्रा ७ जया ८ तुच्छा ९ पूर्णा १० भवति पूर्णा 'पक्खस्स दसमी' पक्षस्य दशमी तिथिर्भवति १० । एवमेव ' पुणरवि' पुनरपि 'नंदा' इत्यादि नन्दा ११ भद्रा १३ जया १२ तुच्छा १४ एपा पूर्णा 'पक्खस्स पण्णरसी' पक्षस्य पञ्चदशी तिथि र्भवतीति १५ । ' एवं ' एवम् अनया रोल्या 'ता' ता' 'तिगुणा' त्रिगुणाः 'नन्दा, भद्रा, जया, तुच्छा, पूर्णा' एभिर्नामभित्रिरावर्त्तनेन सम्पन्नाः पञ्चदश ‘तिडीओ' तिथयः 'सव्वेसिं दिवसाणं' परिपूर्णपक्षस्य दिवसानां भवन्तीति । पुनर्गौतमो रात्रितिथिविपये पृच्छति - 'ता कहं ते राई तिहीओ' इत्यादि । 'ता' तावत् 'क' कथं कया नाम परिपाट्या 'राई तिहीओ' रात्रितिथय 'आहिया' आख्याताः कथिताः ? 'ति वएज्जा' इति-इत्यपि वदेत् वदतु - कथयतु हे भगवन् । एवं गौतमेन प्रश्ने कृते भगवानाह - 'ता एगमेगस्स णं' इत्यादि । 'ता' तावत् ' एगमेगस्स णं पक्खस्स' एकैकस्य खलु पक्षस्य 'पण्णरस २' पञ्चदश पञ्चदश 'राईतिहीओ' रात्रि तिथयः 'पण्णत्ता' प्रज्ञप्ताः कथिताः, 'तं जहा' तद्यथा - ता यथा - 'उग्गवई' उग्रवती प्रथमा प्रतिपत्सम्बन्धिनी रात्रितिथिः उग्रवती १ 'भोगवई' भोगवती द्वितीया सम्बन्धिनी रात्रितिथि· भोगवती कथ्यते २ । 'जसवई' यशोमती तृतीया तिथि सम्बन्धिनो रात्रितिथिः यशोमतीनाम्ना कथ्यते ३, 'सव्वहसिद्धा' सर्वार्थसिद्धा चतुर्थी तिथि सम्बन्धिनी रात्रि तिथि. सर्वार्थसिद्वेति प्रसिद्धा ४ । 'सुहाणाम' शुभानाम्नी पञ्चमी तिथि सम्बन्धिनी रात्रि तिथि शुमेति नाम्ना प्रोच्यते, एषा पक्षस्य पञ्चमी रात्रितिथिरिति ५ ।
पूर्णा १५ भवति ।