SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रक्षप्तिसूत्रे "तं स्यय कुमुयसिरिसप्पभस्स चंदस्स राइसु रुयस्स । लोए तिहित्ति निययं, भण्णइ वुड्ढीए हाणीए ॥१॥" छाया-रजत कुमुदश्री सत्प्रभस्य चन्द्रस्य रात्रिमुरुचेः। लोके तिथि रिति नियतं, भण्यते (यस्य) वृद्धया हान्या ॥१॥ इति । चन्द्रस्य या वृद्धि निर्वा भवति सा न स्वरूपतः किन्तु राहुविमानकृता भवति, यदा राहु विमानेन चन्द्रविमानमात्रियते तदा चन्द्रस्य हानिरन्यथा वृद्धिर्भवतीति लोके कथ्यते-चन्द्रस्य हानिर्वृद्धिर्वा जातेति । राहुश्च द्विविधः पर्वराहुः ध्रुव (नित्य) राहुश्च । पर्वराहोर्विचारोऽत्रानुपयुक्तइत्यग्रे वक्ष्यते, अन्यत्र वा स्थले वर्त्तते इति तत्रतोऽवसेय. । अत्र प्रस्तुतप्रकरण ध्रुवराहोरिति तस्य विपये विविच्यते-यो ध्रुवराहुस्तस्य विमानं कृष्णं स च चन्द्रमण्डलस्याधस्ताच्चतुरड्गुलान्तरेण नित्यं चारं चरति । अथ - चन्द्रमण्डलं वुद्धया चतु पष्टि संख्यक गैः परिकल्प्यते यदिदं चन्द्रमण्डलं चतुष्पष्टि भागात्मकमिति । तत एतेषां चतु. पष्टिभागाना कुलानां पोडशत्वात् पोडशभिर्भागो हियते लब्धाश्चत्त्वारश्चतुःपष्टिभागाः एते पञ्चदशसु दिवसेपु चन्द्रममण्डलस्य प्रत्येक दिवसस्य आवरणभागाः सन्ति । तेन तिथीनां पञ्चदशत्वात्पञ्च दशभिस्तिथिभिः पष्टि भागाश्चचन्द्रस्य राहुणा आत्रियन्ते शेपः स्थितश्चतुर्भागात्मक एको भागः स च चन्द्रमण्डलस्य सदाऽनावृताएव तिष्ठति, एप एव चन्द्रमण्डलस्य पोडशीकलेति प्रसिद्धम्, एपा पोडशीकला कदाऽपि नात्रियते । स च ध्रुवराहुः कृष्णपक्षस्य प्रतिपदि चन्द्रमण्डलस्याधश्चतुरड्गुलान्तरेण चारं चरन स्वकीयेन पञ्चदशेन भागेन यः पोडशीकला सज्ञाकश्चतुर्भागात्मकः सदाऽनावार्यः पोडशो भागस्तं मुकवा शेपस्य पष्टि भागात्मकस्य चन्द्रमण्डलस्य तिथीनां पञ्चदशत्वात् पञ्चदश भागा भवन्ति तेषु ध्रुवराहुः स्वकोयेन पञ्चदशेन भागेन चतुर्भागात्मकमेकं पञ्चदशं भागमावृणोति । एवं द्वितीयायां स्वकीयाभ्यां द्वाभ्या पञ्चदशभागाभ्यां द्वौ पञ्चदशभागौ अप्ट भागात्मको चन्द्रमण्डलस्याऽऽवृणोति । तृतीयायां च स्वकीयैस्त्रिभिः पञ्चदश भागैस्त्रीन् पञ्चदशभागान् द्वादशभागात्मकान् चन्द्रमण्डलस्यावृणोति । एवमावरणवृद्वया यावद् अमावस्यायां स्वकीयैः पञ्चदशभिः पञ्चदशभागैः पञ्चदशापि पञ्चदशभागान् चन्द्रमण्डलस्यावृणोति, तदा चन्द्रमण्डलस्य पप्टिरपि भागा अवृता भवन्ति प्रतिदिनावारक चतुर्भागेन पञ्चदशानां गुणने पष्टिभागानां लाभादिति । एवं शुक्लपक्षे एतावत्परिमितमेव भागं चन्द्रमण्डलस्य प्रकटी करोति ततः प्रतिपदायामेकं चतुर्भागात्मकं पञ्चदशं भागं प्रकटीकरोति । एवं द्वितीयायां द्वौ, तृतीयायां त्रीन् चतुर्भागात्मकान् पञ्चदशभागान् प्रकटी करोति । एवमावरणहान्या यावत् पञ्चदश्यां चतुर्भागात्मकान् पञ्चदशाऽपि पञ्चदशभागान् प्रकटीकरोति तदा चन्द्रमण्डलस्य पष्टिरपि भागा आनावृता भवन्ति ततः सर्वमपि चन्द्रमण्डलं सर्वात्मना परिपूर्ण लोके दृश्यते ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy