________________
३५०
चन्द्रप्राप्तिसूत्र
भागान् , एकत्य च एकपष्टिभागस्य सत्कमेकसप्तभागं
यावत् सूर्यमण्डलं वहिर्विनिर्गतं वर्त्तते, तत एतावता पम्हिीणं परत’चन्द्रमण्डलान्तरं भवति । तत्र द्वादशसूर्यमार्गा लम्यन्ते । सन्तिमादबा द्वादशाच्च मूर्यमार्गात् परतो द्वन्तरशतैकपण्टिमागैः, एकस्य च एक पष्टिभागस्य सत्कैस्त्रिाभिः सप्त भागे. (१०२ ३) एतावत्क्षेत्रानिक्रमणानन्तरमित्यर्थ. चतुर्दश चन्द्रमण्डलं लभ्यते, तच्च चतुर्दशं चन्द्रमण्डलं सूर्यमण्डलात् एकोनविंशतिमेकपष्टिभागान् , एकस्य च एकपष्टिभागरय सत्कान् चतुरः सप्तभागान (2) यावत् अभ्यन्तरं प्रविष्टं विद्यते । निष्ठन्ति शेषा' पत्रिशदेकषष्टिभागाः, एकस्य च एकपष्टिभागस्य सत्कास्त्रय. 'सप्तभागाः (1) इत्येतावत्परिमितं चन्द्रमण्डलं सूर्यमण्डलसम्मिश्रं भवति । तस्माच्चतुर्दशाच्चन्द्रमण्डलात्-एकादश एकपष्टिभागान् , एकस्य च एकपष्टिभागस्य चतुरः सप्तभागान( यावत् एतत्परिमितमित्यर्थः सूर्यमण्डलं बहिर्विनिर्गतं वर्तते तत एतावता परिमाणेन न्युनं यथोक्त परिमाण चन्द्रमण्डलान्तरमायाति तत्र च द्वादश सूर्यमार्गा लभ्यन्ते । पुनश्च द्वादशात्सूर्यमार्गात् परतश्चतुर्दशोत्तरशतसंख्यकैरेकपष्टिभागैः पञ्चदशं चन्द्रमण्डलं लभ्यते । तच्च पञ्चदशं चन्द्रमण्डलं सर्वान्तिमात् सूर्यमण्डलादर्वाक्-अष्टैकपष्टिभागान् (८) यावत् अभ्यन्तरं प्रविष्टं वर्तते । तिष्ठन्ति ये शेपा अष्टचत्वारिंशदेकपष्टिभागास्ते सूर्यमण्डलमम्मिश्रा भवन्तीति । एतानि-एकादशादीनिपञ्चदशपर्यन्तानि पञ्चचन्द्रमण्डलानि सूर्यमण्डलसम्मिश्राणि भवन्ति । एषु च चरमेषु चतुर्थचन्द्रमण्डलान्तरेपु द्वादश द्वादश सूर्यमार्गा भवन्तीति ।
अथोपसंहियते--चन्द्रस्य पञ्चदशमण्डलानि भवन्ति, तत्र एकादीन पञ्चमपर्यन्तानि पञ्चमण्डलानि आभ्यन्तराणि, तथा--एकादशादीनि पञ्चदशपर्यन्तानि पञ्चमण्डलानि च बाह्यानि कथ्यन्ते, एतानि दशमण्डलानि चन्द्रसूर्ययोः साधारणानीति दशचन्द्रमण्डलानि सूर्यमण्डलसम्मिश्राणि भवन्ति, तथा षष्ठादारभ्य दशमपर्यन्तानि पञ्चमण्डलानि प्रत्येकानीति तानि केवलं चन्द्र एव स्पृशति, न कदाचिदपि सूर्यः, इति एतानि सूर्यमण्डलसंस्पृष्टानि भवन्तीत्येवं सर्व सविस्तरं प्रदर्शितम् । सूर्यमार्गाश्च चतुर्दशस्वेव चन्द्रमण्डलेपु लभ्यन्ते तत्रैवान्तरसद्भावात् न तु सर्वान्तिमे पञ्चदशे चन्द्रमण्डले तदग्रेऽन्तराभावात्, इति-अष्टसु आयेपु चतुर्यु चरमेषु च चतुर्यु अभ्य