________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा०मा ११
चन्द्रसूर्यमण्डलमार्गतदन्तरंच
न्तरबाह्येषु चन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यमार्गा भवन्ति । तदतिरिक्तेषु पञ्चमादिदशमपर्यन्तेषु पट्सु च चन्द्रमण्डलान्तरेषु त्रयोदश सूर्यमार्गा भवन्ति, उक्तञ्च--- चंदंतरेस असु, अभितरवा हिरे सूरस्स |
वारस वारस मग्गा, छसु तेरस तेरस भवंति ॥ १॥ इति छाया - चन्द्रान्तरेषु अष्टसु, अभ्यन्तरबाह्येषु सूरस्य । द्वादश द्वादश मार्गाः पट्सु त्रयोदश त्रयोदश भवन्ति ॥ १ ॥ " इति चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्ति प्रकाशिकायां टीकायां दशमस्य प्राभृतस्य एकादशं प्राभृतप्राभृतं समाप्तं १०-११ ।
। दशमस्य प्राभृतस्य द्वादशे प्राभृतप्राभृतम् ।
गतमेकादशं प्राभृतप्राभृतम्, तत्र चन्द्रमण्डलानि, तदन्तराणि सूर्यमार्गाश्च प्रदर्शिताः, अत्र च नक्षत्राणां देवताध्ययनानि वक्तव्यानोत्यधिकृत्य द्वादशं प्राभृतप्रामृतं प्रारभ्यते, तस्य चेदं सूत्रम् 'ता कहं ते देवयाणं अज्झयणा' इत्यादि ।
३५१
मूलम् - ता कहं ते देवयाणं अझयणा आहिया ? तिवएज्जा-ता एएसि णं अट्ठावीस नक्खत्ताणं अभिई णक्खत्ते वंभदेवयाए पण्णत्ते १ । सवणे णक्खत्ते विडुदेवया पण्णत्ते २ । एवं जहा जंबूदीवपण्णत्तीए जाव उत्तरासाढा णक्खत्ते विसुदेवया पण्णत्ते ॥ ० १ ॥
छाया - तावत् कथं ते देवतानां अध्ययनानि आख्यातानि ? इति वदेत् । तावत् पतेषां खलु अष्टाविंशतेः नक्षत्राणां अभिजित् नक्षत्रं किं देवताकं प्रज्ञप्तम् १ ब्रह्मदेवताकं प्रज्ञप्तम् १ | श्रवणनक्षत्रं किं देवताकं प्रज्ञप्तम् ? विष्णु देवताकं प्रज्ञप्तम् २ | एवं यथा जम्बूद्वीपप्रज्ञप्त्यां यावत् उत्तराषाढा नक्षत्रं विष्वग्देवाकं प्रज्ञप्तम् २८ ||सू० १ ॥
दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतं समाप्तम् || १० | १२||
व्याख्या - 'ता कहं ते' इति 'ता' तावत् 'कहं, कथं केन प्रकारेण हे भगवन् ! 'ते' त्वाया 'देवयाणं' देवतानां नक्षत्राधिष्ठातॄणां 'अज्झयणा' अध्ययनानि - अधीयन्ते ज्ञायन्ते यैस्तानि अध्ययनानि अभिधानानि नामानीतिभावः 'आहिया' आख्यातानि कथितानि 'तिवएज्जा' इति वदेत् कथयेत्, प्रतिपादयन्तु भवन्तः, इति गौतमेन प्रश्ने कृते भगवानाह - 'ता' तावत् 'एएसिणं' एतेषां खलु ‘अट्ठावीसाए णक्खत्ताणं' अष्टाविंशतेर्नक्षत्राणां मध्ये 'अभिई णक्खत्ते' अभिजिन्नक्षत्रं 'वंभदेवयाए ' ब्रह्मदेवताकं ब्रह्माभिधदेवताकं 'पण्णत्तं ' प्रज्ञप्तम् | अभिजि - न्नक्षत्रस्य ब्रह्माभिधो देवोऽधिष्ठाताऽस्ति, एवमग्रेऽपि सर्वत्र योज्यम् । 'सवणे णक्खत्ते' श्रवणनक्षत्र