SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३३० www.mmminen arrr- m..maananam चन्द्रप्राप्तिसूत्रे चत्वारिंशदधिकानि चतुर्दशशतानि (१४४०), एपो मध्ये येऽधस्तनाः पञ्च ते प्रक्षिप्यन्ते, जातानि पञ्चचत्वारिंशदधिकानि चतुर्दशशतानि (१४४५) एषां पङगोत्यधिकशतेन (१८६) भागो हियते, लब्धानि सप्त ७ इति सप्त अयनानि, शेषं तिष्ठति त्रिचत्वारिंशदधिकमेकं शतम् (१४३) एतत् चतुर्भिर्गुण्यते जातानि द्विसप्तत्यधिकानि पञ्चशतानि (५७२), एपामेकत्रिंशता भागो हियते लब्धानि अष्टादश (१८) तानि चाड्गुलानि, द्वादशाड्गुलं पदमिति द्वादशभिरड्गुलैस्तु पदं लभ्यते, शेपं पट्, तानि चाडगुलानि तत आयातम् एकं पदं षड अड्गुलानीति । तत एकत्रिंशता भागे हते ये उद्धृताश्चतुर्दश १४, ते यवानयनार्थमष्टभिर्गुण्यन्ते जातं तिष्ठति द्वादशोत्तरं शतम् (११२) अस्य-एकत्रिंशता भागो ह्रियते लब्धस्त्रयः ३, ते च यवाः ३, शेपा तिष्ठति एकोनविंशतिः ते च एकोनविंशति रेक त्रिंगद्रागाः । ततः एकं पदं पड़ अड्गुलानि, त्रयो यवाः, एकस्य यवस्य एकोनविंशतिश्वैकत्रिंशद्वागाः ( ) इति प्राप्तम् । अत्र सप्तचाय नानि गतानि अष्टमं वर्तते, तच्चायनमुत्तरायणं भवति, उत्तरायणे च पदचतुष्टयरूपाद् ध्रुवराशेहानिर्भवेदिति पूर्वोक्ताङ्कश्रेणिः ( १) पदचतुष्टयात् होना क्रियते ' तदा शेष तिष्ठति-द्वे-पदे- पञ्चाङ्गुलानि, चत्वारो यवाः एकस्य च यवस्य द्वादश एकत्रिंशद्भागा (प. अं यवा. भागाः २-५-४ , एतावतीयुगादित आरभ्य सप्तनवतितमे पर्वणि पञ्चम्यां तिथो पौरुषी ३१)। पितायुगादित . भवतीत्युत्तरमवसेयम् एवं सर्वत्र गणना परिभावनीयेति ॥ सू०१॥ "इति चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिकायां टीकायां दशमस्य प्रामृतस्य दशमं प्राभृतप्रामृत समाप्तम् ॥ १०-१०॥ दशमस्य प्राभृतस्य-एकादश प्राभृतप्राभृतम् । गतं दशमं प्राभृतप्रामृतम् , तत्र नक्षत्राणां नेतृत्वं पौरुषो प्रमाणं च प्रदर्शितम् । अथ एकादर्श प्राभृतप्रामृतं प्रारभ्यते, अत्र नक्षत्राण्यधिकृत्य चन्द्रमार्गाः, चन्द्रमण्डलान्तरं सूर्यमार्गश्च प्रदर्शयिष्यते, इति सम्बन्धेनायातस्यास्यैकादशप्रामृतप्रामृतस्य प्रथमं चन्द्रमार्गविषयकमिदमादिसूत्रम्-'ता कहते चंदमग्गा इत्यादि । मूलम्-ता कहं ते चंदमग्गा आहिएति वएवज्जा । ता एएसिण अट्ठावीसाए णक्खताणं अस्थि णक्खत्ता जे ण सया चंदस्स दाहिणेणं जोयं जोएंति ॥१॥ अस्थिणखत्ता जे णं सया चंदस्स उत्तरेण जो जोएंति ॥२॥अस्थि णक्खता जेणं सया चंदस्स
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy