________________
चन्द्राप्तिप्रकाशिका टोका प्रा १० प्रा०प्रा १० पौरुषीप्रमाणप्रतिपादकगाथार्थः ३२९ दधिके द्वे शते (२४८) इति । अस्य राशेः (२४८) आयेन चतुष्करूपेण राशिना भागो हियते लब्धा द्वापष्टिः ६२ । आगतमुत्तरायणे द्वापष्टितमायां तिथौ पौरुष्यामष्टावड्गुलानि हीनानीति गतानि उत्तरायणस्य द्वापष्टिदिनानीति विभावनीयमिति ॥८॥ इति करणगाथाः ॥८॥
तदेवं क्रमेण व्याख्याता अष्टापि करणगाथाः । साम्प्रतं 'युगस्यादितोऽमुकस्मिन् पर्वणि कतिपदा पौरुपी भवति ? इत्युदाहरणैः प्रदर्शयति-यथा कोऽपि पृच्छति-युगे आदित आरभ्य पञ्चाशीतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुपी भवति ? तत्र चतुरशीति म्रियते, तस्याश्चाधस्तात् पञ्चम्यां तिथौ पृष्ट मिति पञ्च स्थाप्याः ।८४। चतुरशीतिश्च पञ्चदशभिर्गुण्यते जातानि
'षष्टयधिकानि द्वादशशतानि (१२६०), एतेषु मध्ये अधस्तना ये पञ्च स्थतास्ते प्रक्षिप्यन्ते, जातानि पञ्चषष्टयधिकानि द्वादशशतानि (१२६५) एपां पडशीत्यधिकेन शतेन १८६, भागो हियते, लब्धा पट् ६, आगतं पड़ अयनानि गतानि, सप्तममयनं वर्तते । ततस्तद्गतं च शेपमेकोन पञ्चाशदधिकं शतं १४९ तिष्ठति । तत एप राशिश्चतुर्भिगुण्यते जातानिः पण्णवत्यधिकानि पञ्चशतानि ५९६ । एपामेकत्रिशता भागो हते लब्धा एकोनविंशति १९, शेपास्तिष्ठन्ति सप्त ७, तत्र द्वादशाङ्गुलः पादो भवतीत्येकोनविशते. १९ द्वादशकेन भागो हियते तेन लब्धमेकं पदम्, शेषाः सप्त, तानि चाड्गुलानि, तेन जातमेकं पदं सप्तचागुलानि पद षष्ठं चायनमुत्तरायणं, तच्च गतं, सप्तमं तु दक्षिणायनं वर्तते, ततो ये च सप्त एक त्रिंगद्भागाः पूर्व शेपीभूता वर्तन्ते तेषां यवाः कार्याः, तत्र-अष्ट यवात्मकमेकमड्गुलमिति ते' सप्त , अष्टभिर्गुण्यन्ते जाताः षट् पञ्चाशत् ५६ अस्यकत्रिंशता भागे हृते लब्ध एको यवः, शेपास्तिष्ठन्ति पञ्चविशतिः,२५. एते एकस्य यवस्य पञ्चविंशतिरेकत्रिशद्भागाः, ततो जातम् एक पदम् , सप्त अड्गुलानि, एको यवः, एकस्य च यवस्य पञ्चविंशतिरेकत्रिंशद्भागाः पदम्-अङ्गुलानि-यवः-एकत्रिंशद्भागाः
१--७----१ -२५ एकः राशिः पदद्वयप्रमाणे ध्रुवराशौ प्रक्षिप्यते, तत आगतम् पञ्चाशीतितमे पर्वणि पञ्चम्यां तिथौत्रीणि पदानि,' सप्तअगुलानि, एको यवः, एकस्य च यस्य 'पञ्चविंशतिरेकत्रिंशद्गागाः (पद. अं यवः भागा इत्येतावती पौरुपीति ।। -३-७-१-२५
7. " तथा पुनरन्यः कोऽपि पृच्छति' -सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी भवति १, तत्र' पण्णवतियिते तस्याश्चाधस्तात् पञ्च, पण्गवति च पञ्चदशभिर्गुण्यते, जातानि