________________
. चन्द्रप्तिप्रकाशिकाटीकाप्रा०१० प्रा. प्रा. १० सू०१पौरुषी प्रमाणप्रतिपादकगाथार्थः ३२५
उत्तरे अयने हानिः, चतुर्भिः पादैः यावत् द्वौ पादौ । . ऐवं तु पौरुष्याः, वृद्धि-क्षयौ भवतः ज्ञातव्यौ ॥७॥
वृद्धिः वा हानिः वा, यावत्का पौरुष्या दृष्टा तु।
तत्तः दिवसगतेन यत् लब्धं तत् खु अयनगतम् ॥८॥ इति ।
एता गाथाः क्रमेण व्याख्यायन्ते- 'पव्वे पण्णरसगुणे' पर्वपञ्चदशगुण-युगमध्ये यस्मिन् पर्वणि यस्यां तिथौ पौरुपीपरिमाणं ज्ञातुमिप्यते तस्मात् पूर्वयुगादित आरभ्य यावन्ति पर्वा,ण, पूर्णिमा रूपाणि व्यतीतानि तेषां संख्या ध्रियते, तत्पश्चात् 'तिहिसहिए' तिथि सहितः यस्या तिथे. पौरुपोपरिमाणं ज्ञातुमिच्छेत् तस्यास्तिथेः पूर्व यावत्यस्तिथयो गतास्तत्सख्यया यो राशिः पूर्वमेकत्रस्थापितः स सहितः युक्तः कर्त्तव्यः, तस्मिन् रागो गतः तिथिसंख्या प्रक्षिप्यते इत्यर्थः । किमर्थमित्याह 'पोरिसीए आणयणे' पौरुष्या आनयने पौरुष्वानयनार्थमित्यर्थः । ततः-तिथिसहितः पूर्वोक्तो राशिः 'छलसीइसयविभत्ते पडशीतिशत विभक्तः षडशीत्यधिकेन शतेन तस्य रोशेर्भागो हियते-अत्रायं भावः-एकस्मिन् सौरमासे सूर्यतिथयः सार्धत्रिंशद् भवन्ति तदवधौ चन्द्रतिथय एकत्रिंशद् भवन्ति, ततोऽयनस्य पण्मासत्वेन मासस्य सूर्य तिथयः सार्धत्रिंशत् पड्केन गुण्यन्ते ततो भवति पडशीत्यधिकमेकं शतं (१८६) मण्डलानामेक स्मिन्नयने तथा तदवधिगतचन्द्रतिथयश्चैकत्रिंशत् पड्केन गुण्यन्ते ततो भवति षडशीत्यधिकमेकं शतं (१८६) चन्द्र तिथीनामेकस्मिन् अयने ततः त्र्यशीत्यधिकशतपरि माणमण्डलात्मके एकस्मिन्नयने चन्द्रनिष्पादिततिथीनां पडशीत्यधिकशतप्रमाणत्वेन पडशीत्यधिकशतेन भागहरणं कथितम् भागे च हृते 'जं लद्धं' यत् लब्धं भागहारेण यत् प्राप्तं 'तं वियाणाहि' तत् विजानीहि हृदि सम्यगवधारयेत्यर्थः ॥ १॥ ततः 'जइ होइ विसमलखें। यदि भवति विपमं लन्धं यदि लब्धं, लब्धसंख्या विपमा एक-त्रिपञ्चादिरूपा भवेत् तदा तत्पर्यन्तवर्ति 'दक्षिणमयणं' दक्षिणमयनं दक्षिणायनं 'ठविज्जनायव्वं' स्थापयेत् ज्ञातव्यं, भवेदित्यर्थः । 'अह' अथ यदि 'समं लद्धं' सम लब्धसमसंख्या द्विकचतुष्क-पटकादिरूपा लब्धा भवेत् तदा तत्पर्यन्तवर्ति 'उत्तरं अयणं नायव्वं' उत्तरमयनम् उत्तरायणं ज्ञातव्यम् ॥२॥ तदेवमुक्तो, दक्षिणोत्तरायणपरिज्ञानोपायः । साम्प्रतं पडशीत्यधिकशतेन भागे हृते यच्छेपमवतिष्ठते, अथवा भागसंभवेन यच्छेपं तिष्ठति तद्गतविधि प्रदर्शयति-'अयणगए' इत्यादि । 'अयणगए तिहिरासी' अयनगतस्तिथिराशि:-पूर्व भागे हूते भागसंभवे वा अवशेपीभूतो योऽयनगत स्तिथिराशिः-पूर्वभागे हते भागसंभवे वा अवशेषीभूतो योऽयनगतस्तिथिराशि स्तिष्ठति सः 'चउग्गुणे' चतुर्गुणः कर्तव्यः चतुर्भि चतुर्गुण्यते इत्यर्थः, गुणिते सति यः गुणनफलरूपो राशिः सः 'पन्चपाय भइयव्यं' पर्वपादेन भक्तव्यः पर्वपादेन पर्वचतुर्थां शेन तस्य भागो हर्त्तव्यः, तथाहि युगमध्ये यानि सर्वसकलनया पर्वाणि चतुर्विशत्यधिकशत(१२४)संख्यकानि कथमित्याह