________________
चन्द्रशतिप्रकाशिका टीका प्रा०१० प्रा. प्रा. १० सू०१ नक्षत्राणां नेतृत्वं पौरूषीपरिमाणं च ३१९
पौरुष्या छायया सूर्यः अनुपरावर्त्तते, तस्य खलु मासस्य चरमे दिवसे त्रीणि पदानि अष्ट अम्गुलानि पौरुषी भवति । १ ।
1
तावत् हेमन्तानां द्वितीयं मासं कति नक्षत्राणि नयन्ति तावत् चत्वारि, नक्षत्राणि नयन्ति, तद्यथा - संस्थांना, आर्द्रा पुनर्वसुः पुण्यः । संस्थाना चतुर्दश अहोरात्रान् नयति, आर्द्रा सप्त- अहोरात्रान् नयति, पुनर्वसुः अष्ट अहोरात्रान् नयति, पुष्यः एकमहोरात्रं नयति । तस्मिंश्च खलु मासे चतुर्विंशत्यदगुल्या पौरुष्या छायया सूर्यः अनुपरावर्त्तते । तस्य खलु मासस्य चरमे दिवसे रेखास्थानि चत्वारिपदानि पौरुपी भवति । २ । तावत् हेमन्तानां तृतीयं मासं कतिनक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति तथा पुष्यः अश्लेषामघा । पुष्यः चतुर्दश अहोरात्रान् नयति, अश्लेषा पञ्चदश अहोरात्रान् नयति मघा एकमहोरात्रं नयति । तस्मिंश्च खलु मासे विंशत्युदगुल्या पौरुष्या छायया सूर्यः अनुपरावर्त्तते । तस्य खलु मासंस्य चरमे दिवसे त्रीणि पदानि अष्ट अडगुलानि पौरुषी भवति।३ ।
1
{
तावत् हेमन्तानां चतुर्थ मास कति नक्षत्राणि नयन्ति तावत् त्रीणि नक्षत्राणि नयन्ति तद्यथा - मघा, पूर्वाफल्गुनी, उत्तराफाल्गुनी । मघा चतुर्दश अहोरात्रान् नयति, पूर्वाफाल्गुनी पञ्चदश अहोरात्रान् नयति, उत्तरफाल्गुनी एकमहोरात्र नयति । तस्मिंश्च खलु मासे पोडशोगुलया पौरुपया छायया सूर्य अनुपरावर्तते । तस्य खलु मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि अद्गुलानि पौरुषी भवत | ४ |
","
तावत् ग्रीष्माणां प्रथमं मांस, कति नक्षत्राणि नयन्ति । तावत् त्रीणि नक्षत्राणि नयन्ति तद्यथा - उत्तराफाल्गुनी हस्तः चित्रा ! उत्तराफाल्गुनी चतुर्दश अहोरात्रान् नयति, हस्तः पञ्चदश अहोरात्रान् नयति, चित्रा एकमहोरात्रं नयति । तस्मिश्च खलु मासे द्वादशाङ्गुलया पौरूष्या छायया सूर्यः अनुपरावर्त्तते । तस्य खलु मासस्य चरमे दिवसे रेखा स्थानि त्रीणि पदानि पौरुपी भवति । १ ।
तावत् श्रीमाणां द्वितीयं मासं कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा - चित्रां, स्वाति विशाखा । चित्रा चतुर्दश अहोरात्रान् नयति, स्वातिः पञ्चदश अहोरात्रान् नयति, विशाखा एकमहोरात्रं नयति । तस्मिंश्च खलु मासे अष्टाङ्गुलया पौरुष्या छायया सूर्यः अनुपरावर्त्तते । तस्य खलु मासस्य चरमे दिवसे द्वे पदे अष्टअङ्गुलानि पौरुषी भवति । २ ।
ग्रीष्माणां तृतीयं मास कति नक्षत्राणि नयन्ति ? तावत् चत्वारि नक्षत्राणि नयन्ति, तद्यथा - विशाखा अनुराधा ज्येष्टा मूलम् । विशाखा चतुर्दश अहोरात्रान् नयति, अनुराधा सप्तमहोरात्रान् नयति, ज्येष्टा अष्टअहोरात्रान् नयति, मूलम् एकमहोरात्रं नयति तस्मिंश्च खलु मासे चतुरङ्गुलया पौरुण्या छायया सूर्यः अनुपरावर्त्तते । तस्य च खलु मासस्य चरमे दिवसे द्वे चत्वारि अंगुलानि पौरुषी भवति । ३ ।
तावत् ग्रीष्माणां चतुर्थ मासे कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति तद्यथा - मूलं पूर्वाषाढा उत्तराषाढा, मूलं चतुर्दश अहोरात्रान् नयत पूर्वाषाढा, पञ्चदश अहोरात्रान् नयति, उत्तराषाढा एकं नक्षत्रं नयति । ( जम्बूद्वीपप्रज्ञप्ति संगृहीतः पाठो गतः ) यावत् तस्मिंश्च खलु मासे 'वृत्तया समचतुरस्रसंस्थितया न्यग्रोधपरिमण्डलया स्वकायमनुरङगिण्या छायया सूर्यः अनुपरावर्त्तते तस्य खलु मासस्य चरमे दिवसे रेखास्थे द्वे' पदे पौरूषी भवति । ४ । सू" १
"
hracit
""