________________
चन्द्रशप्तिप्रकाशिका टीका प्रा०१० प्रा. प्रा. ६ सू०१ अमावास्यायोगकारी कुलादिनक्षत्रम् २३५
___ एवं चतुर्थी श्राविष्ठीममावास्यां पञ्चदामुहूर्तात्मकमलेषानक्षत्रमेकस्य मुहूर्तस्य सप्तसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकचत्वारिंशति सप्तषष्टिभागेषु (० - परिसमापयति ।।
पञ्चमी श्राविष्ठीममावास्यां त्रिंशन्मुहूर्त्तात्मक पुष्यनक्षत्रं त्रिषु मुहूर्तेपु, एकस्य च मुहूर्तस्य द्विचत्वारिंशतिद्वापष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशति सप्तषष्टिभागेषु (३- ) गतेषु परिसमापयति ॥५॥
अथ प्रौष्ठपदीप्रमृत्यमावास्याविषये प्राह -'एवं' इत्यादि, ‘एवं' एवम् अनया रीत्या 'एएणं' एतेन अनन्तरोक्तेन 'अभिलावेणं' अभिलापेन आलापकप्रकारेण अग्रे प्रौष्ठपदी प्रभृत्यमावास्याविपये 'णेयवं' नेतव्यं ज्ञातव्यम् , तथाहि-'पोट्ठवई' इत्यादि, 'पोढवई' प्रोष्ठपदी भाद्रपदमासभाविनीममावास्यां 'दो णक्खत्ता जोएंति द्वे नक्षत्रे युक्तः योगं कृत्वा परिसमापयतः, 'तंजहा' तद्यथा ते द्वे यथा-पुव्वाफग्गुणी उत्तराफग्गुणी य' पूर्वाफाल्गुनों उत्तराफाल्गुनी च । इदं तु व्यवहारतः कथ्यते, वस्तुतस्तु त्रीणि नक्षत्राणि प्रोष्ठपदीममावस्यां परिसमापयन्ति, तत्र तृतीयाया' पञ्चम्याश्च प्रोष्ठपद्यमावास्यायाः परिसमापकत्वात । तथाहि-प्रथमां प्रोष्ठपदीमावास्यां पञ्चचत्वारिंशन्मुहूर्तात्मकमुत्तराफाल्गुनी नक्षत्रं चतर्ष महर्तेषु, एकस्य च मुहूर्तस्य पड्विंशतौ द्वाषष्टि भागेपु गतेषु, तथा एकस्य च द्वापष्टिभागस्य द्वयोः सप्तपष्टि भागयोः (४---)गतयोः सतोः समापयति ।१। द्वितीयां प्रोष्ठपदीममावास्यां त्रिंशन्मुहूर्तात्मकं पूर्वाफाल्गुनीनक्षत्रं । सप्तसु मुहूर्तेषु, एकस्य च मुहूर्तस्य एकषष्ठौ द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चदशसु सप्तपष्टि भागेषु (४७६६१९) व्यतिक्रान्तेषु परिसमापयति ।२। तृतीयां प्रोष्ठपदीममावास्यां त्रिंशन्मुहूर्तात्मकं मघानक्षत्रम् एकादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य चतुस्त्रिंशति द्वाषष्टि भागेपु, एकस्य च द्वापष्टिभागस्य अष्टाविगतौ सप्तपष्टिभागेषु (११-२ ) परिपूरितेषु समाप्ति नयति ।३। चतुर्थी प्रोष्ठपदीममावास्यां त्रिंशन्मुहूर्तात्मकं पूर्वाफाल्गुनी नक्षत्रम्एकविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य द्वादशसु द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्विचत्वारिंशति सप्तष्टि भागेषु(२१ १२।१२) गतेषु परिसमापयति ।४। पञ्चमी ष्ठि-,
३४२८ ।