________________
चन्द्राप्तिप्रकाशिका टीका प्रा० १०-६ सू०१
पूर्णिमायां नक्षत्रयोगनिरूपणम् २६५
सहस्राधिके द्वे लक्षे (२७४५००) तथा च - ९१५०x३० =२७४५००। अस्य राशेः चतुष्पञ्चाशदधिकचत्वारिंशच्छतै ( ४०५४) र्भागो हियते - लब्धा षट्षष्टिर्मुहूर्त्ताः तथा च
षट्त्रिंशदधिकानि त्रीणि शतानि (३३६) एष
२७४५०० (६६ ।
शेषा अंशाः
४०५४)
शेषाः ३३६, राशि द्वषष्टिभागानयनार्थं द्वापष्ट्या गुण्यते जातानि द्वात्रिंशदधिकाष्टशतोत्तराणि विंशतिसहस्राणि (२०८३२ ) अस्यापि अनन्तरोक्तेन चतुष्पञ्चाशदघिकै कचत्वारिशच्छतरूपेण (४१५४) छेदराशिना भागहरणं क्रियते लब्धाः पञ्च द्वाषष्टिभागा: ( ५ ), शेषास्तिष्ठन्ति (६२) । ततस्तस्या द्वाषष्ट्या अपवर्त्तना क्रियते जात एककः ?, छेदगशेश्चतुर्विंशत्याधिकशत रूपस्य द्वाषष्ट्याऽपवर्त्तनायां लब्धा सप्तषष्टिः ततः मायातं-पटू पष्टिर्मुहूर्त्ताः एकस्य च मुहूर्तस्य
७
पञ्च द्वाषष्टिभागा, एकस्य च द्वाषष्टिभागस्य एकः सप्पषष्टिभागः । ६६-५-६२ इति तदेवं जातमवधार्थराशिप्रमाणम् । अवधार्यराशेरुत्पत्तिरेषा भवतीति ।
६७
६२
अथ शेषविधि प्रदर्शयति- 'एयमवहाररासि' इत्यादि, 'एयं' एतम् पूर्वोक्तम् 'अवहाररासिं' अवघार्थर।शिम् 'इच्छअसावाससंगुणं कुज्जा' इच्छितामावास्यासंगुणं यामवास्यां ज्ञातुमिच्छा वर्त्तते तम्प्रमितया सख्यया गुणितं कुर्यात् व्यतिक्रान्तामावास्यासंख्यया भवधार्यराशिं गुणयेदिति भाव: । गुणयित्वा गुणनराशिमेकत्र स्थापयेदित्याशयः 'एत्तो' इत उर्ध्वं च नक्षत्राणि शोधनीयानि भवन्तीति 'नक्खत्ताणं' नक्षत्राणां 'सोहणविहिं' शोधनविधि वक्ष्यमाणं शोधनप्रकारं 'निसा मेह' | निशाम्यत शृणुध्वम् ||३||
प्रथमं पुनर्वसुशोधनकमाह – 'बावीस इत्यादि 'वावीसं' च सुहुत्ता' द्वाविशतिश्च मुहूर्त्ताः एकस्य च मुहूर्त्तस्य ‘छायालीसं विसद्विभागा' षट्चत्वारिंशदद्विषष्टिभागाः - (२२६२) 'ए' एतत् - एतावत्प्रमाणं 'पुणन्वसुस्स' पुनर्वसोः पुनर्वसु नक्षत्रस्य 'सोहेयच्वं भव' शोधयतिव्यं भवति । 'घुच्छं' वक्ष्यामि शेषनक्षत्राणा शोधनकानि अग्रे कथयिष्यामि || ४ ||
कथमेतस्योत्पत्तिरिति चेदाह - इह यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तदा एकं पर्वातिक्रम्यैकेन पर्वणा कतिपया लभ्यन्ते ? इति त्रिराशिकगणितप्रकारोऽयंजायते, तथा च स्थापना (१२४|५| १ | ) अत्रान्त्येन एककराशिना पञ्चकरूपो मध्यराशिर्गुण्यते तदा जाताः पञ्चैव । तेषां चतुर्विंशत्यधिकेन शतेन भागो हियते, पञ्चकरूपराशेन्यूनत्वेन भागो न ह्रियते तदा स्थिताः पञ्चैव शेषरूपाः, तेन लब्धाः पञ्च - चतुर्विंशत्यधिकशत भागाः (५।१२४) । ततो नक्षत्रानयनार्थमेष राशिः त्रिंशदधिकैरष्टादशभिः शतैः (१८३०) सप्तषष्टिभागरूपैर्गुणयितव्यइति गुणकारराशिः त्रिंशदधिकान्यष्टादशशतानि (१८३०) छेदराशिश्चतुर्विंशत्यधिकमेकं शतम्
૩૪