SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा० १०-४ सू० १ योगस्यादिनिरूपणम् २४९ इति श्रीणि नक्षत्राणि किश्चित्कालं चन्द्रेण सह प्रथमतो योगं युञ्जन्ति तेन एतानि त्रीण्यपि नक्षत्राणि पश्चाद्भागानि बोध्यानि २। 'ता' तावत् ततः 'धणिट्ठा खलु णक्खत्ते' घनिष्ठा खलु नक्षत्र 'पच्छंभागे' पश्चाद्भागं सायं समये तस्य चन्द्रेण सह प्रथमतो योगकारकत्वात् 'समखेत्तं' समक्षेत्र रात्रिदिवसरूपसमस्त क्षेत्र स्थापित्वात् अतएव 'तीस मुहूत्ते' त्रिशन्मुहूर्तात् यावत् 'तप्पढम, याए' तत्प्रथमतया प्रथममेव ' सायं' संन्ध्याकाले 'चंदेण सद्धि जोयं जोएइ' चन्द्रेण सार्धं योगं युनक्ति 'जोयं जोइता' योगं युक्त्वा चन्द्रेण सह योगं कृत्वा 'तओ पच्छा' ततः पश्चात् सायंसमयादूर्ध्व 'राई' तां रात्रिं 'अवरं च दिवस' अपरं द्वितीयं च दिवसं यावत् चन्द्रेण सह तिष्ठति । उपसंहारमाह - ' एवं खलु' इत्यादि ' एवं ' एवम् उक्तरीत्या 'खल' निश्चयेन 'धणिट्ठा णक्खत्ते' घनिष्ठा नक्षत्रं 'एगं च राई' एकां च तां रात्रिम् 'एग च दिवस' एकंच - द्वितीय दिवसं यावत् 'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण सार्धं योगं युनक्ति 'जोयं जोएत्ता' पूर्वोक्तकालं त्रिंशन्मुहूर्त्तरूपं यावत् योगं युक्त्वा तदनन्तरं 'जोयं अणुपरियह ' योगमनुपरिवर्त्तयति चन्द्रात्स्वमात्मानं पृथक्करोति 'जोय' अणुपरियद्वित्ता' योगमनुपरिवर्त्य 'सायं' सायं द्वितीदिवसस्य सन्ध्यासमये 'चंदं' चन्द्रं 'सयभिसयाणं' शतभिषजे 'समप्पेइ' समर्पयति ३ | 'ता' तावत् ततः 'सय भिसया खलु णक्खत्ते' शतभिषक् खलु नक्षत्रं 'णत्तभागे' नक्तं भागं रात्रिमात्रव्यापित्वात् 'अवड्ढखेत्तं' अपार्धक्षेत्रम् अर्धक्षेत्रस्थायित्वात् अतएव 'पण्णरसमुहुत्ते ' पश्चदशमुहूर्त्ते पश्चदशमुहूर्त प्रमाणकमेतन्नक्षेत्रे 'तप्पढमयाए' तत्प्रथमतया प्रथममेव ' सायं' सायं काले 'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण सार्ध योगं युनक्ति एवं च योगयुक्तं सदेतन्न क्षत्रं 'णो लभइ अवरं दिवस' नो नैव लभते अपरं द्वितीयं दिवसं नक्तंभागत्वेन रात्रिमात्र व्यापित्वात् किन्तु चन्द्रेण योगं युक्त्वा राज्यन्त एव समाप्तिमुपैति अत आह- ' एवं ' एवम् उक्तरीत्या खलु निश्चयेन 'सय भिसया णक्खत्ते' शतभिषक् नक्षत्रम् 'एगं राई' एकामेव रात्रिं यावत् 'चंद्रेण सद्धिं जोयं जोइ' चन्द्रेण सार्धं योगं युनक्ति 'जोयं जोएत्ता' योगं युक्त्वा 'जोय अणुपरियह' योगम् अनुपरिवर्त्तयति, 'जोयं अणुपरियद्वित्ता' योगम् अनुपरिवर्त्य 'पाओ' प्रातः प्रभातकाले 'चंदं' चन्द्रं 'पुब्वपोहवयाणं' पूर्वाप्रोष्ठपदायै पूर्वाभाद्रपदायै 'समप्पेइ' समर्पयति । ता, तावत् ततस्तत् 'पुन्वापोट्ठवया खलु णक्खत्ते' पूर्वाप्रोष्ठप्रदा खलु नक्षत्रं 'पुव्वं भागे' पूर्वभागं प्रातः कालव्यापित्वात् 'समखेत' समक्षेत्र संपूर्णक्षेत्रस्थायित्वात् अतएव 'तीसं मुहुत्ते' त्रिंशन्मुहूते त्रिंशन्मुहूर्त प्रमाणयुक्तं 'तप्पढमयाए' तत्प्रथ मतया प्रथममेव, 'पाओ' प्रातः प्रभातकाले 'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण सार्धं योगं युनक्ति, 'जोयं जोएत्ता' योगं युक्त्वा 'तओ पच्छा' तत् पश्चात् योगकरणानन्तरं दिवसं तद्दिवसं ३२
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy