________________
૨૮
चन्द्रप्राप्तिसूत्रे गन्तव्यम् तच्च करणम्-अन्यग्रन्येभ्योऽवसेयम् । अत्रतु व्यवहारनयाश्रयणेन वाहुल्यतो यस्य नक्षत्रस्य यदा चन्द्रयोगस्यादिर्भवेत् तं प्रतिपादयितुमाह-'अभीई' इत्यादि 'ता' तावत् 'अभिइसवणा' अभिजिच्छवणौ खल 'दुवे णक्खत्ता द्वे नक्षत्रे 'पच्छभागा' पश्चाद्भागे दिवसस्य पश्चाद्भागव्यापके 'समखेत्ता' समक्षेत्रे समस्तक्षेत्रभोंग्ये अत्राय विवेकः इदमभिजिन्नक्षत्रं समक्षेत्रम् अपार्थक्षेत्र त्यर्धक्षेत्र वा न किमप्यस्ति, किन्तु तत् श्रवणनक्षत्रेण सह संबद्ध गृहीनमित्य मेदोपचारेण समक्षेत्रं परिकल्प्य समक्षेत्रत्वेनोपात्तमिति | इमे हे नक्षत्रे 'साइरेग उणयालीसमुहत्ते' सातिरेकैकोनचत्वा रिंशन्मुहूर्ते 'तप्पढमयाए' तत्प्रथमतयेति प्रथममेव 'साय' सायं संध्याकाले, मत्र 'सायं' इति दिवसस्य कतितमाच्चरमभागादारभ्य याचदात्रे कतितमो भागो भवेत् अर्थात् यावत्कालं नक्षत्रमण्डलालोकः परिस्फुटो न भवेत् तावत्परिमितः कालविशेषः 'साय' इति विवक्ष्यते तस्मिन् सायंकाले 'चंदेण सद्धि जोयं जोएंति' चन्द्रेण साध योग युकः । तत्र अभिजिन्नक्षत्रस्य च नव मुहर्ताः तथा चतुर्विशतिरेकपष्टिभागाः, एकोनचत्वारिंशच्च सप्तपष्टिभागाः मन्ति, श्रवणस्य त्रिंशन्मुहूर्ताः इत्युभयोर्मीलने दुयोर्नक्षत्रयोः सातिरेका एकोनचत्वारिंशन्मुहूर्ता भवन्तीत्यत उक्तम् 'साइरेगउणयालीसमुहुत्ता' इति । यद्यपि अभिजिन्नक्षत्रयोगे प्रातः काले युगस्यादि भवति तथापि एकविंशनि मतपष्टिभागान यावत् श्रवणनक्षत्रेण सह समक्षेत्रं भवति तत एवास्यापि पश्चाद्भागत्वेन विवक्षा कृता । श्रवणनक्षत्रं च मध्याह्लादूर्ध्वमपसरति दिवसे चन्द्रेण सह योगं करोति ततः श्रवणनक्षत्रसाहचर्यादभिजिन्नक्षत्रस्यापि सायंकाले चन्द्रेण सह योगं युनक्तीति विवक्षामवल म्च्य सामान्यतः 'सायं चंदेण सद्धिं जोयं जोएंति' इति कथितम् । अथवा युगस्यादिमतिरिच्याऽन्यदा बाहुल्यमाश्रित्येदं कथितमिति नात्र कश्चिद्दोपो विभावनीयः । एवमुक्तनक्षत्रद्वयं 'तओ पच्छा' ततः पश्चात् रात्र्यनन्तम् 'अवरं साइरेग दिवसं' अपरं सातिरेकचतुर्विशत्येक पष्ठिभागैकोनचत्वारिंशत्सप्तपष्टिभागरूपाधिक्यसहितम् अपरं द्वितीय दिवसं यावत् चन्द्रेण सह योगं युकः । उपसहारमोह ‘एवं खलु' इत्यादि ‘एवं' एवम् अनेन प्रकारेण खलु-निश्चयेन 'अभिइसवणा' अभिजिच्छ्रवणौ 'दुवे णक्खत्ता' द्वे नक्षत्रे सायं समयादारभ्य 'एगराई' एक रात्रिम् 'एगं च साइरेग दिवसं एकं च सातिरेक किञ्चदधिकचतुर्विशत्येकपष्टिभागैकोनचत्वारिंशन्सप्तपष्टिभागाधिकं चंदेण सद्धिं जोगं जोएंति' चन्द्रेण साधू योगं युक्तः योग कुरुतः 'जोयं जोएत्ता' चन्द्रेण सार्धमेतावन्तं कालं योगं युक्त्वा तदन्तरं 'जोयं अणुपरियर्ट वि' योगम् अनुपरिवर्तयतः ततः पगवर्तेते, मात्मान चन्द्रात् पृथक् कुरुत इत्यर्थः 'जोयं अणुपरियद्वित्ता' योगं चानुपरिवयं 'सायं' सायं सन्ध्याकाले दिवसस्य कतितमे पश्चाद्भागे इत्यर्थः 'चंद' चन्द्रं धणिवाणं' घणिष्ठायै' 'चतुत्थीए छट्ठी' इति वचनात् प्राकृते चतुथ्यर्थं पष्ठी, वहुवचनं चार्षात्वात् तेन घनिष्ठायै इत्यर्थः 'समप्पंति' समर्पयतः तत्समये अभिजिच्छूवणधणिष्ठा