SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २३८ चन्द्रप्राप्ति विभज्यते तत्र त्रयस्त्रिंशतः पञ्चभिर्भागे हृते लब्धाः षट् (६) अहोरात्राः । तदुपरि शेष साध त्रयम् (३ तदपि त्रिंशता गुणयित्वा पञ्चभिर्विभग्यते लब्धा एकविंशतिः (२१) इति, अतः पई अहोरात्रान् ६ एकविशति च मुहूर्तान् यावत् पण्णां मध्ये प्रत्येकं नक्षाम् सूर्येण सह योगं करोतीति सिद्धम् । अत्रोक्तम् - "सयभिसया १ भरणी २ य अदा ३, अस्सेस ४ साइ ५ जिट्ठा ६ य । वच्चंति मुहुत्ते इक्कवीसं छच्चेवऽहोरत्ते" ॥१॥ छाया-शतभिषा १, भरणी २ च, आर्द्रा ३, अश्लेषा ४, स्वातिः ५ ज्येष्ठा ६ च । वजन्ति मुहूर्तान् एकविशति षट् चैवाहोरात्रान् इति ।२। अथ तृतिय प्रश्नं स्पष्टयति- 'तत्थ' इत्यादि , 'तत्थ' 'तत्र अष्टाविंशतिनक्षत्राणां मध्ये 'जे तेणखत्ता' यानि तानि नक्षत्राणि 'तेरस अहोरत्ते' त्रयोदश अहोरात्रान् 'दुवालस य मुहत्ते' द्वादश च मुहूर्तान् 'सरिएण सद्धिं जोयं जोएंनि' सूर्येण साधू योगं युञ्जन्ति 'ते णं' तानि खल 'पण्णरस' पञ्चदश सन्ति, 'तं जहा' तद्यथा-'सवणो' श्रवणः 'धणिहा' धनिष्ठा ।२, 'पुन्वाभदवया' पूर्वाभाद्रपदा ३, रेवई 'रेवतिः ४ 'अस्सिणी' अश्विनी ५, 'कत्तिया' 'कृत्तिका ६, 'मग्गसिरं 'मार्गशिरः ७, 'पूसो 'पुण्यम् ८, 'मघा' मघा ९, 'पुन्चाफग्गुणी' पूर्वाफाल्गुनी १०, 'इत्थो' हस्तः ११, 'चित्ता' चित्रा १२, 'अणुराहा' अनु. राधा १३, 'मूलो' मूलम् १४, 'पुन्चाआसाहा' पूर्वापाढा १५, इति, तथाहि-एतानि पञ्चदश नक्षत्राणि प्रत्येकत्वेन चन्द्रेण सह त्रिंशन्मुहूर्त्तान् योगं कुर्वन्ति ततस्त्रिंशत् (३०) सप्तषष्टया गुण्यन्ते जाते दशोत्तरे द्विसहने (२०१०) अस्य राशेत्रिशता भागो हियते लब्धाः सप्तपष्टिः (६७) ततः सप्तपष्टयाः पञ्चमिर्भागो हियते लब्धास्त्रयोदश (१३) महोगत्राः, शेष द्वयं (२) तदपि त्रिंशता गुण्यते जाता षष्टिः (६०) पञ्चभिर्भागे हुते लब्धाः द्वादश (१२) अतः-- प्रयोदशाहोरात्रान् द्वादशमुहूर्ती श्च यावत् सूर्येण सह योगो भवतीति सिद्धम् । उक्तंचात्र"अवसेसा नक्खत्ता पण्णरस वि सूरसहपया जंति वारस चेव मुहुत्ते तेरस य समे अहोरचे छाया-अवशेषाणि नक्षत्राणि पञ्चदशापि सूर सहगता यान्ति द्वादश चैव मुहूर्तान् । त्रयोदश च समान् अहोरात्रान इति अत्र 'अवसेसा' इति पदेन ज्ञायते यदियं गाथा तत्रत्य प्रकरणेऽन्तिमा भवतुमर्हतीति विवेकः ।३।। अथ चतुर्थे प्रश्नं स्पष्टयति- 'तत्थ 'इत्यादि, 'तत्थ' तत्र अष्टाविंशति नक्षत्राणां मध्ये 'जे ते एक्णत्वा' यानि तानि नक्षत्राणि 'जे ण' यानि खल 'विस अहोरत्ते' विंशतिमहोरात्रान् 'तिणि य मुहत्ते_त्रीश्च मुहूर्तान् 'मूरि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy