________________
`चन्द्रशप्तिप्रकाशिका टीका प्रा० १० - २०१ नक्षत्राणां चन्द्रेण सह योगनिरूपणम् २३७
अयमाशयः -- यदभिनिन्नक्षत्रं चतुरः अहोरात्रान् षड् मुहूर्त्ताश्च यावत् सूर्येण सह योगं करोति तदेवम् - सामान्यतया एकस्मिन् युगे एकं नक्षत्रं सप्तषष्टिवारान् चन्द्रेण सह योगं करोति, सूयण च सह पञ्चवारान् योगं करोतीति सिद्धान्तः । यदभिजिन्नक्षत्रं चन्द्रेण सह नवमुहूर्त्तान् सप्तविंशति च सप्तषष्टिभागान् यावत् योगं करोति, एनं राशिम् अभिजिन्नक्षत्रमेकस्मिन् युगे
२७
चन्द्रेण सह सप्तषष्टिवारान् यावद् योगं करोति, अतएव सप्तषष्ट्या गुणयेत् (९×६७) ६७
ततो नायते त्रिंशदधिकानि पट् शतानि (६३०) तच्चैवम्-नवमुहूर्ताना सप्तषष्ट्या गुणने जातं त्र्यधिकं षट्शतम् (६ ० ३) अस्मिन् राशौ सप्तविंशतिः सप्तषष्टिभागाः प्रक्षिप्यन्ते जातो यथोक्तो राशिः (६३०) । एकस्याडोरात्रस्य त्रिंशन्मुहूर्त्ताः भवन्त्यतः पूर्वोक्तो राशिः (६३०) त्रिंशता (३०) विभज्यते लब्धा एकविंशतिः (२१) सप्तषष्टि भागाः, एतदेव नक्षत्रमेकस्मिन् युगे पञ्च वारान् योगं करोति तत एकविंशतिः सप्तषष्टि भागा पञ्चभिर्विभज्यन्ते तत आगच्छन्ति चत्वारः ४, एकं च शेषं तदपि त्रिंशता गुणितं जातात्रिंशत् एतेऽपि पञ्चभिर्विभज्यन्ते लब्धा षट् ६ ततोऽभिजिन्नक्षत्रं चतुरः अहोरात्रान् पट् च मुहूर्तान् यावत् सूर्येण सह योगं करोतीति सिद्धम् १ । उक्तञ्च —
"अभिई छच्च मुहुत्ते चत्तारि य केवले अहोरत्ते । सूरेण समं चच्चइ. इत्तो सेसाण बुच्छामि " ॥ १॥
छाया - अभिजित् पट् च मुहूर्त्तान् चतुरः केवलान् अहोरात्रान् ।
सूर्येण समं व्रजति, इतः शेषाणां वक्ष्यामि ॥१॥ इति | १ | अथ द्वितीयं प्रश्नं स्पष्टयति
'तत्थ' इत्यादि । 'तत्थ' तत्र 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि 'जेणं' यानि खलु 'छच्च अहोरत्ते' षट् च अहोरात्रान् 'एक्कवीसं च मुहुत्ते एकविंशतिं च मुहूर्त्तान् 'सूरिएण सद्धिं जोये जोएंति' सूर्येण सार्धं योगं युञ्जन्ति ' तेणं छ' तानि खलु षटू, 'तं जहा ' तथथा – 'सय भिसया' शतभिषक् १, 'भरणी' भरणी २, 'अदा' आर्द्रा ३, 'अस्सेसा' अश्लेषा ४, 'साई' स्वाति: ५, 'जेट्ठा' ज्येष्ठाः ६ इति । तत्कथमिति प्रदर्श्यते-एतानि षड् नक्षत्राणि प्रत्येकं चन्द्रेण सह पञ्चदशमुहूर्त्तान् योगं कुर्वन्ति, चन्द्रेण सह युगे सप्तषष्टिवारयोगकरणत्वेन पञ्चदश सप्तषष्ट्या, गुण्यन्ते जातं पञ्चोत्तरमेकं सहस्रम् (१००५), ततः अहोरात्रस्य त्रिशन्मुहूर्त्तत्वेनास्य त्रिंशता भागो ह्रियते लब्धा अर्धेन सह त्रयस्त्रिंशत् (३३॥) सप्तषष्टिभागाः, ततो युगे म्रर्येण सह पञ्चवारयोगकरणत्वेन एषा संख्या (३३॥) पञ्चभि