SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwwwwwwwwwwwwwwww. २३२ चन्द्र प्राप्तिसूत्रे 'शतभिषक् १ 'भरणी' भरणी २, 'अदा' आर्द्रा ३, 'अस्सेसा' अश्लेषा ४, 'साई' स्वातिः ५, 'जेहा' जेष्ठा ६॥ एतेषां पण्णामपि नक्षत्राणां प्रत्येक सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सम्बन्धिनः सार्धान् त्रयस्त्रिंशद्भागान् (३३॥) यावत् चन्द्रेण सह योगो भवति तत एते सार्धत्रयस्त्रिंशद्भागाः मूत्र्तगतसप्तषष्टिभागकरणाथ त्रिंशता गुण्यन्ते तत्र प्रथम त्रयस्त्रिंशत् त्रिंशता गुण्यन्ते जातानि नवधिकनवशतानि (९९०) ततो यदुपरि अध तदपि त्रिंशता गुण्यते लब्धाः पञ्चदशमुहूर्तस्य सप्तपष्टिभागाः, तेषां पूर्वराशौ प्रक्षेपणे जातं पञ्चोत्तरं सहस्रमेकम् (१००५)। एवं चैतेषां पण्णां नक्षत्राणां प्रत्येकं कालमाश्रित्य सीमाविस्तारः पञ्चोत्तरसहस्रमुहर्तगतसप्तषष्टिभागप्रमितः, अत्राह “सयभिसया भरणीए, अहा अस्सेसा साइ जिहाए । पंचोत्तरं सहस्सं भागाणं सीमाविक्खभो ॥१॥ छाया-शतभिषग्भरण्योः आर्द्रा लेषा-स्वातिज्येष्ठानाम् । पञ्चोत्तरं सहस्र भागानां सीमाविष्कम्भः ॥१॥इति । अस्य पञ्चोत्तरसहस्रस्य सप्तषष्ट्या भागे हृते लब्धाः पञ्चदशमुहूर्ताः । अतएवोक्तं च.. "सयभिसया भरणी य अद्दा अस्सेससाइजिट्टा य । एए छन्नक्खत्ता, पण्णरसमुहत्तसंजोगा" ||१|| छाया शतभिषक् भरणी च आर्द्रा अश्लेषा स्वातिः ज्येष्ठा च एतानि पढ्नक्षत्राणि, पञ्चदशमुहूत्तसंयोगानि ॥२॥इति।। ____ अथ त्रिंशन्मुहूर्त्तविषयकं प्रश्नं स्पष्टयति तत्थ' इत्यादि, 'तत्थ' तत्राष्टाविंशतिनक्षत्राणां मध्ये 'जे ते णक्खत्ता 'यानि तानि नक्षाणि 'जे ण' यानि खल 'तीस मुहुत्ते' त्रिंशन्मुहूर्तान् यावत् 'चंदेण सद्धिं जोय जोएंति' चन्द्रेण साधू योगं युञ्जन्ति, 'ते णं पण्णरस' तानि खल पञ्चदश, 'तं जहा 'तद्यथा-'सवणो' श्रवणः १. 'धणिहा' धनिष्ठा २, 'पुन्वाभहवया पुर्वाभाद्रपदा ३, रेवई' रेवती ४, 'अस्सिणी' अश्विनी ५, 'कत्तिया' कृत्तिका ६, 'मग्गसिरं 'मृगशिरः ७, 'पुस्सं' पुण्यम् ८, 'मघा' 'मघा' ९, पुन्चाफग्गुणी' पूर्वाफाल्गुनी १०, हत्थो' हस्तः ११, 'चित्ता' चित्रा १२. 'अनुराहा' अनुराधा १३, 'मूलो' मूलम् १४, 'पुव्वआसाढा' पूर्वापाढा १५, । तथाहि एतेषा पञ्चदशानां नक्षत्राणां कालमाश्रित्य प्रत्येकं सीमा विष्कम्मो मुहूर्तगतसप्तपष्टिभागानां दशोत्तरं सहस्रद्वयसू (२०१०] भवति । तत्कथमित्याह एषु प्रत्येक नक्षत्रमेकाहोरात्रस्य सप्तषष्टिसप्तपष्टिभागान् (६७) यावत् चन्द्रेण सह योगं करोति ततोऽहोरात्रस्य त्रिशन्मुहूर्त्तप्रमाणत्वात्सप्तषष्टिः त्रिंशता गुण्यते तदा जायते यथोक्को राशिः (२०१०)। तस्य सप्तपष्टया भागो हियते लब्धा स्त्रिंशत् मुहूर्ताः ३०॥इति । अथ चतुर्थ पञ्चचत्वारिंशन्मुहूर्तविषयक प्रश्नं स्पष्टयति-'तत्थ' इत्यादि । 'तत्य' तत्र मष्टाविंशतिनक्षत्राणां मध्ये 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि 'जे णं' यानि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy