SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १०-२ सू०१ नक्षत्राणां चन्द्रेण सह योगनिरूपणम् २३१ सत्तावीस च सत्तट्टिभाए मुहुत्तस्स' सप्तविंशति सप्तषष्टिभागयुक्तान् नवमुहूर्त्तान् यावत् 'चंदेण सद्धिं जोयं जोएड़' चन्द्रेण सार्धं योगं युनक्ति १ । 'कयरे णक्खत्ता' कतराणि नक्षत्राणि किं नामधेयानि नक्षत्राणि 'जे णं' यानि खलु 'पण्णरसमुहुत्ते' पञ्चदशमुहूर्त्तान् यावत् 'चंदेण सद्धिं जोयं जोएंति' चन्द्रेण साधै योगं युञ्जन्ति २ | 'कयरे णक्खत्ता' कतराणि नक्षत्राणि 'जेणं' यानि खलु ‘तीसं मुहुत्ते' त्रिंशन्मुहूर्त्तान् यावत् 'चंदेण सद्धिं जोयं जोएंति' चन्द्रेण सार्धं योगं युञ्जन्ति ३ । 'कयरे' कतराणि कानि 'णक्खत्ता' नक्षत्राणि 'जे णं' यानि खलु 'पणयाली से मुहुत्ते' पञ्चचत्वारिंशन्मुहूर्त्तान् यावत् 'चंद्रेण सद्धिं जोये जोएंति' चन्द्रेण सार्धं योगं युञ्जन्ति । एवं गौतमेन पृष्टे सति भगवान् एकैकशः कृत्वा चतुरोऽपि प्रश्नान् स्पष्टीकरोति - 'ता एएसि णं' इत्यादि । 'ता' तावत् 'एएमिणं' एतेषां खलु 'अट्ठावीसाए णक्खत्ताणं' अष्टाविंश तेर्नक्षत्राणां 'तत्थ' तत्र मध्ये 'ज तं णक्खत्तं' यत्तत् नक्षत्रं 'जेणं' यत् खलु 'णवसुहुत्ते सत्तावीसं च सतट्टिभाए मुहुत्तस्स' सप्तविंशतिं सप्तपष्टिभागयुक्तान् नवमुहूर्त्तान् यावत् 'चंदेणं सद्धिं जोयं जोएड' चन्द्रेण मार्धं योगं युनक्ति 'से णं' तत् खलु 'एगे अभीई' एकम् अभिजित् नक्षत्रमस्ति । एतत् कथम् इति प्रदर्श्यते इदमभिजिन्नक्षत्र सप्तषष्टिखण्डीकृतस्याहोरात्रस्यैक विंशतिभागान् यावत् चन्द्रेण सह योग प्राप्नोति, मुहूर्त्तगतभागकरणार्थमेते च एकविंशतिरपि भागा एकस्याहोरात्रस्य त्रिशन्मुहूर्त्त प्रमाणत्वात् त्रिंशता गुन्यन्ते ( २१ x ३० ) जातानि त्रिंशदधिकानि षट्शतानि (६३०) कालमाश्रित्य एतावान् सीमाविस्तारोऽभिजिन्नक्षत्रस्य भवति, उक्तं चाऽन्यत्रापि “छच्चेव सया तीसा भागाणं अभिई सीमविवक्खंभो । दिट्ठो सहरगो सव्वेहिं अनंतनाणीहिं " ||१|| छाया - षडेव शतानि त्रिशत् भागानाम् अभिजित्सीमा विष्कम्भः दृष्टः सर्वलघुकः सर्वैः अनन्तज्ञानिभिः ||१|| इति तानि त्रिंशदधिकषट्शतानि (६३० ) सप्तषष्ट्या विभज्यन्ते ततो लब्धा नवमुहूर्त्ताः एकस्य मुहूर्त्तस्य च सप्तविंशतिः सप्तषष्ठिभागाः (९६७) अतएवोकम् “अभिइस्स चदजोगो सत्तट्टीखंडिओ अहोरत्तो । भागा य सत्तवीस ते पुण अहिया नव मुहुत्ता " ॥ १॥ छाया - अभिजितः चन्द्रयोगः सप्तषष्टिखण्डितम् अहोरात्रम् । भागाश्च सप्तविंशतिः, ते पुनः अधिका नवमुहूर्त्ताः | १| इति । स्पष्टयति- ' तत्थ' इत्यादि । 'तत्' अथ भगवान् पञ्चदशमुहूर्त्तविषयक द्वितीयं प्रश्नं तत्र अष्टाविशतिनक्षत्राणां मध्ये 'जे ते णक्वत्ता' यानि 'पण्णरसमुडुत्ते" पञ्चदशमुहूर्त्तान् यावत् 'चंदेण योगं युञ्जन्ति 'णं' तानि खलु 'छ' तानि नक्षत्राणि 'जेणं' यानि खलु सद्धिं जोयं जोएंति' चंद्रेण सार्धं षट् सन्ति ' तं जहा ' तद्यथा 'सयभिसया'
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy